हरिवंशपर्व, अध्याय 93: प्रद्युम्नगमने, Verse 1
वज्रनाभपुरे प्रद्युम्नप्रवेशः Pradyumna enters vajranAbhapura नटवेशधारिणां यादवानां सुपुरे एवं वज्रपुरे सफलं अभिनयं, दानवानां तोषयित्वा तेभ्यः उपायनानां प्राप्तिः, प्रद्युम्नस्य प्रभावत्याः गृहे प्रवेशः वैशम्पायन उवाच ।
ततः सुपुरवासीनामसुराणां नराधिप ।
ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम् ॥ १॥