Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 1

वज्रनाभपुरं प्रति प्रद्युम्नादीनां गमनम् Together with deva-s kashyapa and aditi go to brahma pradyumna and party set out for vajranAbhapura हंसानां वज्रपुरे निवासः, हंस्या प्रभावतीं प्रद्युम्नस्य प्रति अनुरक्तकरणं, प्रभावत्या हंस्यां प्रद्युम्नस्य प्राप्तिकरणस्य अनुरोधं, हंस्याः वज्रनाभेन सह संवादं, हंसानां मुखतः सर्वं समाचारं श्रुत्वा श्रीकृष्णेन नटवेषे प्रद्युम्नादि यादवानां वज्रपुरे प्रेषणं वैशम्पायन उवाच ।

ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।

पूर्वोचितं हि गमनं तेषां तत्र जनाधिप ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 2

ते दीर्घिका सु रम्यासु निपेतुर्वीर पक्षिणः ।

पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 3

ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।

पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 4

अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप ।

दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 5

आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।

स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 6

त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः ।

यदैवेहोन्सवोऽस्माकं भवद्भिरवगम्यते ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 7

आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् ।

विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 8

ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।

तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 9

चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।

मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 10

वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।

स्त्रियो रेमुर्विशेषेण श‍ृण्वन्त्यः सङ्गताः कथाः ॥ २.९२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 11

विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् ।

प्रभावतीं वरारोहां वज्रनाभसुतां तदा ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 12

हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् ।

सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 13

सा तां कचित्पप्रच्छ वज्रनाभसुतां सखीम् ।

विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 14

त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति ।

रूपशीलगुणैर्देवि किञ्चित् त्वां वक्तुमुत्सहे ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 15

व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।

यदतीतं पुनर्नैति गतं स्रोत इवाम्भसः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 16

कामोपभोगतुल्या हि रतिर्देवि न विद्यते ।

स्त्रीणां जगति कल्याणि सत्यमेतद् ब्रवीमि ते ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 17

स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।

न च कांश्चिद् वरयसे देवासुरकुलोद्भवान् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 18

व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे ।

रूपशौर्यगुणैर्युक्तान् सदृशांस्त्वं कुलस्य हि ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 19

इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 20

त्रैलोक्ये यस्य रूपेण सदृशो न कुलेन वा ।

गुणैर्वा चारुसर्वाङ्गि शौर्येणाप्यति वा शुभे ॥ २.९२.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 21

देवेषु देवः सुश्रोणि दानवेषु च दानवः ।

मानुषेष्वपि धर्मात्मा मनुष्यः स महाबलः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 22

यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।

आपीनानीव धेनूनां स्रोतांसि सरितामिव ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 23

न पूर्णचन्द्रेण मुखं नयने वा कुशेशयैः ।

उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 24

जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे ।

कृत्यानङ्गं वरे साङ्गं विष्णुना प्रभविष्णुना ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 25

हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।

मायाश्च सर्वाः सम्प्राप्ता न च शीलं विनाशितम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 26

यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि ।

एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 27

रुच्या वह्निप्रतीकाशः क्षमया पृथिवीसमः ।

तेजसा सूर्यसदृशो गाम्भीर्येण ह्रदोपमः ।

प्रभावतीं शुचिमुखीं त्वितीहोवाच भामिनी ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 28

प्रभावत्युवाच ।

विष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया ।

पितुः कथयतः सौम्ये नारदस्य च धीमतः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 29

शत्रुः किल स दैत्यानां वर्जनीयः सदानघे ।

कुलानि किल दैत्यानां तेन दग्धानि मानिनि ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 92: द्विनवतितमोऽध्यायः, Verse 30

प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ।

शाखानगरदेशेषु वसन्ति किल येऽसुराः ॥ २.९२.३०॥