Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 1

वज्रनाभवधवृत्तान्तः Story of the slaying of vajranAbha वज्रनाभस्य तपःकरणं एवं वरप्राप्तिः, तस्य त्रिभुवनविजयाय उद्योगं, इन्द्रस्य श्रीकृष्णेन सह वार्ता, भद्रनामानं नटं मुनिभिः वरदानं, इन्द्रेण हंसानां आवश्यकं कर्तव्यं कथयित्वा वज्रनाभपुरे प्रेषणं जनमेजय उवाच ।

भानुमत्यापहरणं विजयं केशवस्य च ।

छालिक्यनयनं चैव देवलोकान्महामुने ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 2

क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् ।

अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 3

वज्रनाभवधो ह्युक्तो निकुम्भवधकीर्तने ।

तन्मे कौतूहलं श्रोतुं प्रसादाद् भवतो मुने ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 4

वैशम्पायन उवाच ।

हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ।

विजयं चैव कामस्य साम्बस्यैव च भारत ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 5

मेरोः सानौ नरपते तपश्चक्रे महासुरः ।

वज्रनाभ इति ख्यातो निश्चितः समितिञ्जयः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 6

तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।

वरेण च्छन्दयामास तपसा परितोषितः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 7

अवध्यत्वं स देवेभ्यो वव्रे दानवसत्तमः ।

पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 8

स्वच्छन्देन प्रवेशश्च न वायोरपि भारत ।

अचिन्तितेन कामानामुपपत्तिर्नराधिप ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 9

शाखानगरमुख्यानां संवाहानां शतानि च ।

नगरस्याप्रमेयस्य समन्ताज्जनमेजय ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 10

तथा तदभवत् तस्य वरदानेन भारत ।

उवास वज्रनगरे वज्रनाभो महासुरः ॥ २.९१.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 11

कोटिशो वरलब्धं तमसुराः परिवार्य ते ।

ऊषुर्वज्रपुरे राजन् संवाहेषु तथैव च ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 12

शाखानगरमुख्येषु रम्येषु च नराधिप ।

हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 13

वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः ।

पुरस्य चात्मनश्चैव जगद् बाधितुमुद्यतः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 14

महेन्द्रमब्रवीद् गत्वा देवलोकं विशाम्पते ।

अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 15

अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर ।

सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 16

स बृहस्पतिना सार्द्धं मन्त्रयित्वा महेश्वरः ।

वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 17

सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।

तस्मिन् वृत्ते यथान्याय्यं तथा स हि करिष्यति ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 18

ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् ।

यथोक्तं देवराजेन तमुवाचाथ कश्यपः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 19

सत्रे वृत्ते करिष्यामि यथा न्याय्यं भविष्यति ।

त्वं तु वज्रपुरे पुत्र वस गच्छ समाहितः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 20

एवमुक्ते वज्रनाभः स्वमेव नगरं गतः ।

महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम् ॥ २.९१.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 21

गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् ।

वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 22

शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः ।

तस्मिन् वृत्ते वज्रनाभं पातयिष्यामि वासव ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 23

तत्रोपायं प्रवेशे तु चिन्तयावः सतां गते ।

नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 24

ततो गतो देवराजो वासुदेवेन सत्कृतः ।

वाजिमेधे च सम्प्राप्ते वसुदेवस्य भारत ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 25

तस्मिन् यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।

चिन्तयामासतुर्वीरौ देवराजाच्युतावुभौ ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 26

तत्र यज्ञे वर्तमाने सुनाट्येन नटस्तदा ।

महर्षीस्तोषयामास भद्रनामेति नामतः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 27

तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् ।

स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 28

देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।

प्रणिपत्य मुनिश्रेष्ठानश्वमेधे समागतान् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 29

नट उवाच ।

भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।

सप्तद्वीपां च पृथिवीं विचरेयमिमामहम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 91: वज्रनाभवधे, Verse 30

प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः ।

अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ॥ २.९१.३०॥