हरिवंशपर्व, अध्याय 90: भानुमतीहरणे, Verse 1
भानुमतीहरणम् निकुम्भवधश्च Abduction of bhAnumatI and end of nikumbha निकुम्भेन भानुमत्याः अपहरणं, श्रीकृष्णार्जुन एवं प्रद्युम्नेन सह तस्य युद्धं, गोकर्णतीर्थे तस्य पतनं, प्रद्युम्नस्य भानुमत्या सह द्वारकां गमनं, तेषां त्रयाणां निकुम्भेन सह युद्धं, तस्य अद्भुताया मायायाः वर्णनं , श्रीकृष्णेन निकुम्भस्य वधं वैशम्पायन उवाच ।
तेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् ।
छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः ॥ १॥