Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने

Containing 88 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 1

छालिक्यक्रीडा ChAlikya sport बलरामश्रीकृष्णादीनां यादवानां जलक्रीडा एवं गानादिनां वर्णनं वैशम्पायन उवाच ।

रेमे बलश्चन्दनपङ्कदिग्धः कादम्बरीपानकलः पृथुश्रीः ।

रक्तेक्षणो रेवतिमाश्रयित्वा प्रलम्बबाहुर्ललितप्रयातः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 2

नीलाम्बुदाभे वसने वसानश्चन्द्रांशुगौरो मदिराविलाक्षः ।

रराज रामोऽम्बुदमध्यमेत्य सम्पूर्णबिम्बो भगवानिवेन्दुः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 3

वामैककर्णामलकुण्डलश्रीः स्मेरं मनोज्ञाब्जकृतावतंसः ।

तिर्यक्कटाक्षं प्रियया मुमोद रामः सुखं चार्वभिवीक्ष्यमाणः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 4

अथाज्ञया कंसनिकुम्भशत्रोरुदाररूपोऽप्सरसां गणः सः ।

द्रष्टुं मुदा रेवतिमाजगाम वेलालयं स्वर्गसमानमृद्ध्या ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 5

तां रेवतीं चाप्यथ वापि रामं सर्वा नमस्कृत्य वराङ्गयष्ट्यः ।

वाद्यानुरूपं ननृतुः सुगात्र्यः समन्ततोऽन्या जगिरे च सम्यक् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 6

चकुस्तथैवाभिनयेन रङ्गं यथावदेषां प्रियमर्थयुक्तम् ।

हद्यानुकूलं च बलस्य तस्य तथाज्ञया रेवतराजपुत्र्याः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 7

चक्रुर्हसन्त्यश्च तथैव रासं तद्देशभाषाकृतिवेषयुक्ताः ।

सहस्ततालं ललितं सलीलं वराङ्गना मङ्गलसम्भृताङ्ग्यः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 8

सङ्कर्षणाधोक्षजनन्दनानि सङ्कीर्तयन्त्योऽथ च मङ्गलानि ।

कंसप्रलम्बादिवधं च रम्यं चाणूरघातं च तथैव रङ्गे ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 9

यशोदया च प्रथितं यशोऽथ दामोदरत्वं च जनार्दनस्य ।

वधं तथारिष्टकधेनुकाभ्यां व्रजे च वासं शकुनीवधं च ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 10

तथा च भग्नौ यमलार्जुनौ तौ सृष्टिं वृकाणामपि वत्सयुक्ताम् ।

स कालियो नागपतिर्ह्रदे च कृष्णेन दान्तश्च यथा दुरात्मा ॥ २.८९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 11

शङ्खहृदादुद्धरणं च वीर पद्मोत्पलानां मधुसूदनेन ।

गोवर्द्धनोऽर्थे च गवां धृतोऽभूद् यथा च कृष्णेन जनार्दनेन ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 12

कुब्जां यथा गन्धकपीषिकां च कुब्जत्वहीनां कृतवांश्च कृष्णः ।

अवामनं वामनकं च चक्रे कृष्णो यथाऽऽत्मानमजोऽप्यनिन्द्यः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 13

सौभप्रमाथं च हलायुधत्वं वधं मुरस्याप्यथ देवशत्रोः ।

गान्धारकन्यावहने नृपाणां रथे तथा योजनमूर्जितानाम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 14

ततः सुभद्राहरणे जयं च युद्धे च बालाहकजम्बुमाले ।

रत्नप्रवेकं च युधाजितैर्यत् समाहृतं शक्रसमक्षमासीत् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 15

एतानि चान्यानि च चारुरूपा जगुः स्त्रियः प्रीतिकराणि राजन् ।

सङ्कर्षणाधोक्षजहर्षणानि चित्राणि चानेककथाश्रयाणि ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 16

कादम्बरीपानमदोत्कटस्तु बलः पृथुश्रीः स चुकूर्द रामः ।

सहस्ततालं मधुरं समं च स भार्यया रेवतराजपुत्र्या ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 17

तं कूर्दमानं मधुसूदनश्च दृष्ट्वा महात्मा च मुदान्वितोऽभूत् ।

चुकूर्द सत्यासहितो महात्मा हर्षागमार्थं च बलस्य धीमान् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 18

समुद्रयात्रार्थमथागतश्च चुकूर्द पार्थो नरलोकवीरा ।

कृष्णेन सार्द्धं मुदितश्चुकूर्द सुभद्रया चैव वराङ्गयष्ट्या ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 19

गदश्च धीमानथ सारणश्च प्रद्युम्नसाम्बौ नृप सात्यकिश्च ।

सात्राजितीसूनुरुदारवीर्यः सुचारुदेष्णश्च सुचारुरूपः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 20

वीरौ कुमारौ निशठोल्मुकौ च रामात्मजौ वीरतमौ चुकूर्दतुः ।

अक्रूरसेनापतिशङ्कवश्च तथापरे भैमकुलप्रधानाः ॥ २.८९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 21

तद् यानपात्रं ववृधे तदानीं कृष्णप्रभावेण जनेन्द्रपुत्र ।

आपूर्णमापूर्णमुदारकीर्ते चुकूर्दयद्भिर्नप भैममुख्यैः ॥ २१॥।

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 22

तै राससक्तैरतिकूर्दमानैर्यदुप्रवीरैरमरप्रकाशैः ।

हर्षान्वितं वीर जगत् तथाभूच्छेमुश्च पापानि जनेन्द्रसूनो ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 23

देवातिथिस्तत्र च नारदोऽथ विप्रः प्रियार्थं मुरकेशिशत्रोः ।

चुकूर्द मध्ये यदुसत्तमानां जटाकलापागलितैकदेशः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 24

रासप्रणेता मुनि राजपुत्र स एव तत्राभवदप्रमेयः ।

मध्ये च गत्वा च चुकूर्द भूयो हेलाविकारैः सविडम्बिताङ्गैः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 25

स सत्यभामामथ केशवं च पार्थं सुभद्रां च बलं च देवम् ।

देवीं तथा रेवतराजपुत्रीं सन्दृश्य सन्दृश्य जहास धीमान् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 26

ता हासयामास सुधैर्ययुक्तास्तैस्तैरुपायैः परिहासशीलः ।

चेष्टानुकारैर्हसितानुकारैर्लीलानुकारैरपरैश्च धीमान् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 27

आभाषितं किञ्चिदिवोपलक्ष्य नादातिनादान् भगवान् मुमोच ।

हसन् विहासांश्च जहास हर्षाद्धास्यागमे कृष्णविनोदनार्थम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 28

कृष्णाज्ञया सातिशयानि तत्र यथानुरूपाणि ददुर्युवत्यः ।

रत्नानि वस्त्राणि च रूपवन्ति जगत्प्रधानानि नृदेवसूनो ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 29

माल्यानि च स्वर्गसमुद्भवानि सन्तानदामान्यतिमुक्तकानि ।

सर्वर्तुकान्यप्यनयंस्तदानीं ददुर्ह रेरिङ्गितकालतज्ज्ञाः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 89: भानुमतीहरणे छालिक्यक्रीडावर्णने, Verse 30

रासावसाने त्वथ गृह्य हस्ते महामुनिं नारदमप्रमेयः ।

पपात कृष्णो भगवान् समुद्रे सात्राजितीं चार्जुनमेव चाथ ॥ २.८९.३०॥