हरिवंशपर्व, अध्याय 83: षट्पुरवधे, Verse 1
यशविस्तरो दुष्टनिग्रहश्च Expanding glory, annihilation of demons ब्रह्मदत्तस्य यज्ञे वसुदेवदेवकीभ्यामागमनं, दैत्यैः ब्रह्मदत्तस्य कन्यकानां अपहरणं , प्रद्युम्नेन तासां रक्षा, नारदस्य कथनेन दैत्येभिः क्षत्रियनरेशानां स्वपक्षे मेलनम्, श्रीकृष्णस्य षट्पुरे आगमनं वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु चतुर्वेदषडङ्गवित् ।
ब्राह्मणो याज्ञवल्क्यस्य शिष्यो धर्मगुणान्वितः ॥ १॥