हरिवंशपर्व, अध्याय 81: एकाशीतितमोऽध्यायः, Verse 1
उमाव्रतकथनसमाप्तिः Narration of umAvrata concluded उमया व्रतकथनस्योपसंहारं, नारदेन देवीभ्यः चीर्णानां व्रतानां वर्णनम्, श्रीकृष्णपत्नीभिः व्रतस्य अनुष्ठानं दानं च उमोवाच ।
बान्धवान् सगुणानिच्छेदेकभक्तेन नित्यदा ।
सप्तमीं सप्तमीं नित्यं क्षपेत् स्त्री पतिदेवता ॥ १॥