हरिवंशपर्व, अध्याय 78: पारिजातहरणे, Verse 1
पुण्यकव्रतवर्णनम् Description of puNyaka vrata उमया सत्या स्त्र्याः महत्त्वं वर्णयित्वा पुण्यकव्रतविधानस्योपदेशं उमोवाच ।
सर्वज्ञाहं यदा भर्तुः प्रसादेन शुचिस्मिते ।
तदा पुरा ममादिष्टो दृष्टः पुण्यविधिः शुभः ॥ १॥