हरिवंशपर्व, अध्याय 76: पारिजातहरणे, Verse 1
द्युतरोः पुनः स्वस्थाने नयनम् The return of the celestial tree सत्यभामया पुण्यकव्रते श्रीकृष्णस्य नारदाय दानम्, नारदेन निष्क्रयं गृहीत्वा श्रीकृष्णस्य मोचनं एवं तस्मात् वरप्राप्तिः, श्रीकृष्णेन सम्बन्धिभ्यः पारिजातं दर्शयित्वा पुनः स्वर्गे प्रेषणं वैशम्पायन उवाच ।
अथ कृष्णस्य कौरव्य ध्यातमात्रस्तपोधनः ।
आजगाम मुनिश्रेष्ठो नारदो वदतां वरः ॥ १॥