Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः

Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 1

स्वर्गात्पारिजातानयनम् Bringing pArijAta from svarga इन्द्रोपेन्द्रस्य पुनर्युद्धं, उत्पातानां प्राकट्यं, ब्रह्मणः आज्ञातः कश्यपादितिभ्यां मध्ये आगत्वा युद्धस्य निवारणस्य उद्योगम्, तदनन्तरं सर्वेषां स्वर्गगमनम्, अदित्या आज्ञया शच्या उपहारं गृहीत्वा पारिजातसहितं द्वारकागमनम्, पारिजातेन द्वारकावासिनां प्रसन्नता, सत्यभामायाः पुण्यकव्रते प्रतिग्रहाय श्रीकृष्णेन नारदस्य स्मरणं वैशम्पायन उवाच ।

ततो रथवरं कृष्णः समारुह्य महामनाः ।

बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृप ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 2

महेन्द्रमाह्वयामास रथस्थो मधुसूदनः ।

सत्कृतं पुष्कराभ्याशे सर्वैर्देवगणैः सह ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 3

ततः शक्रो जयन्तोऽथ हरिभिर्युक्तमुत्तमम् ।

आरुरोह रथं देवः सर्वकामप्रदः सताम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 4

ततो रथस्थयोर्युद्धमभवत् कुरुनन्दन ।

देवयोर्दैवयोगेन पारिजातकृते तदा ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 5

ततोऽहनद् रणे विष्णुर्बाणैः शत्रुबलार्दनः ।

सैन्यानि देवराजस्य बाणजालैरजिह्मगैः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 6

उपेन्द्रं न महेन्द्रोऽथ नैव विष्णुः सुरेश्वरम् ।

ताडयामासतुर्वीरौ शस्त्रैः शक्तावपि प्रभो ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 7

एकैकमश्वं दशभिर्महेन्द्रस्य जनार्दनः ।

विव्याध विशिखैस्तीक्ष्णैरस्त्रयुक्तैर्जनेश्वर ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 8

शैब्याद्यानपि देवेन्द्रः शरैरमरसत्तमः ।

छादयामास राजेन्द्र घोरैरस्त्राभिमन्त्रितैः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 9

स च बाणसहस्रैश्च कृष्णो गजमवाकिरत् ।

गरुडं च महातेजा बलभिद्धरिवाहनम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 10

भूयिष्ठाभ्यां रथाभ्यां तौ तदहः शत्रुदारणौ ।

युयुधाते महात्मानौ नारायणसुराधिपौ ॥ २.७५.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 11

चकम्पे वसुधा कृत्स्ना नौर्जलस्थेव भारत ।

दिशां दाहेन दिग्देशाः संवृताश्च समन्ततः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 12

चेलुर्गिरिवराश्चैव पेतुश्च शतशो द्रुमाः ।

पेतुश्च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 13

निर्घाताः शतशश्चैव पेतुस्तत्र नराधिप ।

ऊहुश्च सरितः सर्वाः प्रतिस्रोतो विशाम्पते ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 14

विष्वग्वाता ववुश्चैव पेतुरुल्काश्च निष्प्रभाः ।

मुहुर्मुहुर्भूतसङ्घा रथनादेन मोहिताः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 15

प्रजज्वाल जले चैव वह्निर्जनपदेश्वर ।

युयुधुश्च ग्रहैः सार्द्धं ग्रहा नभसि सर्वतः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 16

ज्योतींषि शतशः पेतुः स्वर्गाच्च धरणीतले ।

दिशां गजाः प्रकुपिता नागाश्च धरणीतले ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 17

गर्दभारुणसंस्थानैश्छिन्नाभ्रैश्चावृतं नभः ।

विनदद्भिर्महारावैरुल्काशोणितवर्षिभिः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 18

न भूर्न द्यौर्न गगनं नरेन्द्रवृषभाभवन् ।

स्वस्थानि सुरवीरौ तु दृष्ट्वा युद्धगतौ तदा ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 19

जेपुर्मुनिगणा मन्त्राञ्जगतो हितकाम्यया ।

ब्राह्मणाश्च महात्मानो ह्यतिष्ठंस्तेषु सत्वराः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 20

ततो ब्रह्मा महातेजाः कश्यपं वाक्यमब्रवीत् ।

गच्छ बध्वा सहादित्या पुत्रौ वारय सुव्रत ॥ २.७५.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 21

स तथेति तदा देवमुक्त्वा पद्मभवं मुनिः ।

जगाम रथमास्थाय तस्थौ नरवरान्तिके ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 22

स्थितं तु कश्यपं दृष्ट्वा सहादित्या तदन्तरा ।

उभौ रथाभ्यां धरणीमवतीर्णौ महाबलौ ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 23

न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुररिन्दमौ ।

पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 24

उभौ गृहीत्वा हस्ताभ्यामदितिस्त्वब्रवीद् वचः ।

असोदराविवैवं किमन्योन्यं हन्तुमिच्छतः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 25

स्वल्पमर्थं पुरस्कृत्य प्रवृत्तमतिदारुणम् ।

सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 26

श्रोतव्यं यदि मातुश्च पितुश्चैव प्रजापतेः ।

न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 27

तथेत्युक्त्वा च तौ देवौ स्नातुकामौ महाबलौ ।

गङ्गां जग्मतुरेवाथ प्रजल्पन्तौ परस्परम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 28

शक्र उवाच ।

त्वं प्रभुर्लोककृत् कृत्स्नराज्येऽहं स्थापितस्त्वया ।

स्थापयित्वा कथं नाम पुनर्मामवमन्यसे ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 29

भ्रातृत्वमुपगम्यैव ज्येष्ठत्वं चाप्यपोह्य च ।

कथं कमलपत्राक्ष निर्वाणं कर्तुमिच्छसि ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 75: पञ्चसप्ततितमोऽध्यायः, Verse 30

स्नातौ तु जाह्नवीतोये पुनरभ्यागतौ नृप ।

यत्रादितिः कश्यपश्च महात्मानौ दृढव्रतौ ॥ २.७५.३०॥