हरिवंशपर्व, अध्याय 74: चतुःसप्ततितमोऽध्यायः, Verse 1
कृष्णकृता शिवस्तुतिः KRiShNa prays to shiva रात्र्यां युद्धं स्थगितं कृत्वा श्रीकृष्णेन पारियात्रं पर्वतं वरदानम्, गङ्गायाः स्मरणं, बिल्वगङ्गाजलोपरि महादेवस्य आह्वानं कृत्वा बिल्वोदकेश्वरस्य पूजनं स्तुतिकरणं च, महादेवेन तस्मै अभीष्ट वरं प्रदाय दैत्यानां घातनाय आदेशं, पारियात्रपर्वतोपरि भगवतः निवासं, तस्य प्रतिमापूजनस्य महिमा वैशम्पायन उवाच ।
तमारुह्य रथं कृष्णः पारियात्रं गिरिं ययौ ।
यत्रैरावतमास्थाय स्थितः सुरपतिः प्रभुः ॥ १॥