Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 1

कश्यपकृतं रुद्रस्तोत्रम् Hymn to rudra by kashyapa श्रीकृष्णेन नारदं अमरावत्योपरि आक्रमणस्य निश्चयं कथयित्वा इन्द्राय सन्देशप्रेषणम्, इन्द्रबृहस्पतयोः वार्तालापः, बृहस्पतिना कश्यपाय अस्य समाचारस्य कथनं एवं कश्यपेन युद्धस्य शान्तये भगवतः शङ्करस्य स्तुतिः वैशम्पायन उवाच ।

अथेत्य द्वारकां रम्यां नारदो मुनिसत्तमः ।

ददर्श पुरुषश्रेष्ठं नारायणमरिन्दमम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 2

स्ववेश्मनि सुखासीनं सहितं सत्यभामया ।

विराजमानं वपुषा सर्वतेजोऽतिगामिना ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 3

तमेवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् ।

केवलं योजयन्तं च वाक्यमात्रेण भाविनीम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 4

दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः ।

पूजयामास च तथा विधिदृष्टेन कर्मणा ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 5

सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः ।

वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 6

अथाचष्ट मुनिः सर्वं विस्तरेण तपोधनः ।

इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 7

श्रुत्वा कृष्णस्तु तत्सर्वं नारदं वाक्यमब्रवीत् ।

अमरावतीं पुरीं यास्ये श्वोऽहं धर्मभृतां वर ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 8

इत्युक्त्वा नारदेनैव सहितः सागरं ययौ ।

सन्दिदेश ततस्तत्र विविक्ते नारदं हरिः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 9

महेन्द्रभवनं गत्वा अद्य ब्रूहि तपोधन ।

अभिवाद्य महात्मानं मद्वाक्यममरोत्तमम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 10

न युद्धे प्रमुखे शक्र स्थातुमर्हसि मे प्रभो ।

पारिजातस्य नयने निश्चितं त्वमवेहि माम् ॥ २.७२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 11

एवमुक्तस्तु कृष्णेन नारदस्त्रिदिवं गतः ।

आचचक्षेऽथ कृष्णोक्तं देवेन्द्रस्यामितौजसः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 12

ततो बृहस्पतेः शक्रः शशंस बलनाशनः ।

श्रुत्वा बृहस्पतिर्देवमुवाच कुरुनन्दन ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 13

अहो धिग् ब्रह्मसदनं मयि याते शतक्रतो ।

दुर्नीतमिदमारब्धमत्र भेदो हि दारुणः १३ ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 14

अनाख्यात्वा कथं नाम भवता भुवनेश्वर ।

ममैतत् कृत्यमारब्धं देव केनापि हेतुना ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 15

अथवा भवितव्येन कर्मजेन प्रयुज्यते ।

जगद् वृत्रघ्न न विधिः शक्यः समतिवर्तितुम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 16

सहसैव तु कार्याणामारम्भो न प्रशस्यते ।

तदेतत्सहसाऽऽरब्धं कार्यं दास्यति लाघवम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 17

बृहस्पतिं महात्मानं महेन्द्रस्त्वब्रवीद् वचः ।

एवं गतेऽद्य यत् कार्यं तद् भवान् वक्तुमर्हति ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 18

तमुवाचाथ धर्मात्मा गतानागततत्त्ववित् ।

अधोमुखश्चिन्तयित्वा बृहस्पतिरुदारधीः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 19

यतस्व सह पुत्रेण योधयस्व जनार्दनम् ।

तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 20

बृहस्पतिस्त्वेवमुक्त्वा क्षीरोदं सागरं गतः ।

आचष्ट मुनये सर्वं कश्यपाय महात्मने ॥ २.७२.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 21

तच्छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिमभाषत ।

अवश्यं भाव्यमेतद् भोः सर्वथा नात्र संशयः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 22

इच्छतः सदृशीं भार्यां महर्षेर्देवशर्मणः ।

अपध्यानकृतो दोषः पतत्येष शतक्रतोः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 23

तस्य दोषस्य शान्त्यर्थमारब्धश्च मुने मया ।

उदवासः स दोषश्च प्राप्त एव सुदारुणः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 24

तद् गमिष्यामि मध्येऽस्य सहादित्या तपोधन ।

उभौ तौ वारयिष्यामि दैवं संवदते यदि ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 25

बृहस्पतिस्तु धर्मात्मा मारीचमिदमब्रवीत् ।

प्राप्तकालं त्वया तत्र भवितव्यं तपोधन ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 26

तथेति कश्यपश्चोक्त्वा सम्प्रस्थाप्य बृहस्पतिम् ।

जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 27

तत्र सौम्यं महात्मानमानर्च वृषभध्वजम् ।

वरार्थी कश्यपो धीमानदित्या सहितः प्रभुः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 28

तुष्टाव च तमीशानं मारीचः कश्यपस्तदा ।

वेदोक्तैः स्वकृतैश्चैव स्तवैः स्तुत्यं जगद्गुरुम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 29

कश्यप उवाच ।

उरुक्रमं विश्वकर्माणमीशं जगत्स्रष्टारं धर्मदृश्यं वरेशम् ।

सं सर्वं त्वां धृतिमद्धाम दिव्यं विश्वेश्वरं भगवन्तं नमस्ये ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 72: पारिजातहरणे, Verse 30

यो देवानामधिपः पापहर्ता ततं विश्वं येन जगन्मयत्वात् ।

आपो गर्भं यस्य शुभा धरित्र्यो विश्वेश्वरं तं शरणं प्रपद्ये ॥ २.७२.३०॥