Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 1

इन्द्रस्य पारिजातदानेऽसंमतिः Indra unwilling to part with pArijAta tree स्वर्गे महादेवस्य परिचर्याहेतु नृत्यगीतादिकं उत्सवं, नारदेन इन्द्रं प्रति श्रीकृष्णस्य पारिजातविषयकं प्रार्थनारूपं सन्देशस्य कथनम्, इन्द्रेण अनेकानि कारणानि कथयित्वा पारिजातस्य अदानस्य विचारप्रकटनं वैशम्पायन उवाच ।

नारदोऽथ मुनिर्गत्वा महेन्द्रसदनं प्रति ।

तां रात्रिमवसत् तत्र ददृशे च महोत्सवम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 2

तत्रादित्या महात्मानो वसवश्च सुरोत्तमाः ।

राजर्षयश्च विद्वांसः स्वर्गताः कर्मभिः शुभैः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 3

नागा यक्षाश्च सिद्धाश्च चारणाश्च तपोधनाः ।

ब्रह्मर्षयश्च शतशो देवर्षिमनवस्तथा ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 4

सुपर्णाश्च महात्मानो मरुतश्च महाबलाः ।

दिवौकसां निकायाश्च शतशोऽन्ये समागताः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 5

उपर्युपरि सर्वेषां सोमो देवो महेश्वरः ।

तस्थावमितविक्रान्तः स्वैर्गणैः परिवारितः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 6

देवर्षिँभिर्मुनिश्रेष्ठैः संवृतः सर्वभावनः ।

कल्पान्तरसहस्रेषु क्षयो येषां न विद्यते ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 7

यानर्चयन्ति सततं देवा देवेश्वरोपमाः ।

आत्मना नावलेपान्धा ये च धर्मपथि स्थिताः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 8

रुद्राश्च काश्यपा देवमध्युपासन्त भारत ।

स्कन्दश्च भगवानग्निर्गङ्गा च सरितां वरा ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 9

अर्चिष्मांस्तुम्बुरुश्चैव भारिश्च वदतां वरः ।

नेतारो देवदेवानामेते हि तपसान्विताः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 10

एताननुविधीयन्ते सर्वदेवगणा नृप ।

धर्मनित्यास्तपोनित्याः सतां मार्गमुपाश्रिताः ॥ २.६९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 11

ये त्विमे मानुषा देवानर्चयन्ति शुभार्थिनः ।

तानर्चयन्ति ह्यमरास्तथा राजञ्छुभार्थिनः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 12

पितृकृत्येषु देवानां संन्यासं ये त्वनुष्ठिताः ।

स्वाध्यायवन्तः कौरव्य सदा नियमचारिणः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 13

गन्धर्वाधिपतिः श्रीमांस्तत्र चित्ररथो नृप ।

सपुत्रो वादयामास देववाद्यानि हृष्टवत् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 14

ऊर्णायुश्चित्रसेनश्च हाहा हूहूस्तथैव च ।

डुम्बरस्तुम्बुरुश्चैव जगुरन्ये च षड्गुणान् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 15

उर्वशी विप्रचित्तिश्च हेमा रम्भा च भारत ।

हेमदन्ता घृताची च सहजन्या तथैव च ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 16

जुजोष भगवान् देवस्तदुपस्थानमात्मवान् ।

वृत्तेन तुष्टः शक्रस्य जगाम जगतो गतिः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 17

गते भूतपतौ सर्वे नृपा जग्मुर्यथागतम् ।

महेन्द्रेणार्चिता देवाः स्वानेव निलयान्गताः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 18

ततः सर्वेषु यातेषु सुखासीनं पुरन्दरम् ।

सदस्यैः स्वैः सहासीनं नारदोऽभिययौ मुनिः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 19

तमिन्द्रः पूजयामास समुत्थाय तपोधनम् ।

दिदेश कुशगर्भे च पीठमात्मासनोपमम् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 20

नारदोऽथ महातेजा महेन्द्रमिदमब्रवीत् ।

दूतोऽहममरश्रेष्ठ विष्णोरतुलतेजसः ॥ २.६९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 21

किञ्चित्कार्यं पुरस्कृत्य प्रेषितोऽस्मि महात्मना ।

आनर्तादार्तिहरणं तस्यैवानघतेजसः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 22

प्रीतिवाक्यानि हृद्यानि प्रयुज्य मुनये तदा ।

ततः प्रहृष्टो भगवानब्रवीत् पाकशासनः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 23

किमाह पुरुषश्रेष्ठः शीघ्रमाचक्ष्व मे मुने ।

चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 24

नारद उवाच ।

महेन्द्रेन्द्रानुजं द्रष्टुं गतोऽहं भ्रातरं तव ।

कथञ्चिद्द्वारकां तत्र काश्यपानां यशस्करम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 25

तं तु रैवतकेऽद्राक्षं तदासीनमरिन्दमम् ।

रुक्मिण्या सहितं वीरमुमयेव वृषध्वजम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 26

पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।

विस्मापनार्थं देवेश पत्नीनामुरुतेजसः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 27

तद् दृष्ट्वा तस्य पत्न्यस्तु विस्मयं परमं ययुः ।

बहुकामप्रदं पुष्पं वृक्षराजसमुद्भवम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 28

गुणास्तासां मया ख्यातास्तस्य पुष्पस्य मानद ।

सृष्टिश्च पारिजातस्य कश्यपेन महात्मना ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 29

अदित्या कश्यपो दत्तः पुण्यार्थं च यथा मम ।

पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 69: पारिजातहरणे, Verse 30

त्वं च दत्तो यथा शच्या देवाश्चान्ये सुरेश्वर ।

निष्क्रयश्च यथा दत्तः कश्यपाद्यैर्महर्षिभिः ॥ २.६९.३०॥