हरिवंशपर्व, अध्याय 67: पारिजातहरणे, Verse 1
पारिजातोत्पत्तिकथनम् Narration of the origin of pArijAta श्रीकृष्णेन पृष्टे सति सत्यभामया स्वरोषस्य खेदस्य च कारणकथनम्, श्रीकृष्णेन तस्यै पारिजातवृक्षस्य आनयनस्य विश्वासेन सन्तुष्टकरणम्, सत्यभामया श्रीकृष्णेन साकं नारदस्य सत्कारम्, नारदेन पारिजातस्य उत्पत्तेः एवं महिम्नस्य वर्णनम् ।
वैशम्पायन उवाच ।
नारायणः सत्यभामां पुनरेवैष भारत ।
प्रोवाच प्रणयात् क्रुद्धामभिमानवतीं सतीम् ॥ १॥