हरिवंशपर्व, अध्याय 66: पारिजातहरणे, Verse 1
कृष्णेन भामाक्रोधकारणप्रश्नः KRiShNa enquires satyabhAmA श्रीकृष्णेन सत्यभामायाः माननं एवं सत्यभामया मानसिकं खेदं प्रकटयित्वा तपस्यायै अनुमतेः पृच्छा वैशम्पायन उवाच ।
उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित् ॥ १॥