हरिवंशपर्व, अध्याय 65: पारिजातहरणे, Verse 1
पारिजातनिबंधनः सत्याकोपः NArada presents pArijAta flower and satyabhama's anger रैवतके पर्वतोपरि रुक्मिण्याः व्रतोद्यापनोत्सवं, तस्मिन् पारिजातं दत्त्वा श्रीकृष्णेन रुक्मिण्याः सम्मानं, नारदेन रुक्मिण्याः सर्वाधिकस्य सौभाग्यस्य प्रशंसा एवं सत्यभामायाः कोपभवने प्रवेशं जनमेजय उवाच ।
प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ॥ १॥