Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 1

पारिजातहरणम् PArijAta fetched श्रीकृष्णस्य नरकासुरस्य भवने प्रवेशम्, तत्रस्य धनवैभवस्य एवं षोडशसहस्राणां कुमारीणां द्वारकायां प्रेषणम्, स्वयं देवलोकं गत्वा अदितिं कुण्डलानि दत्त्वा तत्रतः पारिजातं गृह्य प्रत्यागमनं वैशम्पायन उवाच ।

निहत्य नरकं भौमं वासवोपमविक्रमम् ।

वासवावरजो विष्णुर्ददर्श नरकालयम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 2

अथार्थगृहमासाद्य नरकस्य जनार्दनः ।

ददर्श धनमक्षय्यं रत्नानि विविधानि च ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 3

मणिमुक्ताप्रवालानि वैदूर्यस्य च सञ्चयान् ।

मासारगल्वकूटानि तथा वज्रस्य सञ्चयान् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 4

जाम्बूनदमयान्यस्य शातकुम्भमयानि च ।

प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 5

शयनानि महार्हाणि तथा सिंहासनानि च ।

हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 6

ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम् ।

जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 7

वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम् ।

यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 8

नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च ।

रत्नसन्निचयस्तादृग् दृष्टपूर्वो न च श्रुतः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 9

हते भौमे निसुन्दे च हयग्रीवे च दानवे ।

उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 10

दानवा हतशिष्टा ये कोशसञ्चयरक्षिणः ।

केशवाय महार्हाणि यान्यर्हति जनार्दनः ॥ २.६४.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 11

दैत्या ऊचुः ।

इमानि मणिरत्नानि विविधानि बहूनि च ।

भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 12

हेमसूत्रा महाकक्षाश्चापतोमरशालिनः ।

रुचिराभिः पताकाभिः शबला रुचिराङ्कुशाः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 13

ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ।

अष्टौ शत सहस्राणि देशजाश्चोत्तमा हयाः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 14

गोषु चापि कृतो यावान् कामस्तव जनार्दन ।

तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 15

आविकानि च सूक्ष्माणि शयनान्यासनानि च ।

कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 16

नन्दनागुरुकाष्ठानि तथा कालीयकान्यपि ।

वसु यत् त्रिषु लोकेषु धर्मेणाधिगतं तव ।

प्रापयिष्याम तत् सर्व वृष्ण्यन्धकनिवेशनम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 17

देवगन्धर्वरत्नानि पन्नगानां च यद् वसु ।

तानि सर्वाणि सन्तीह नरकस्य निवेशने ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 18

वैशम्पायन उवाच ।

तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च ।

सर्वमाहारयामास दानवैर्द्वारकां पुरीम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 19

ततस्तद् वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।

हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 20

गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् ।

ततोऽभ्ययाद् गिरिश्रेष्ठमभितो मणिपर्वतम् ॥ २.६४.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 21

तत्र पुण्या वयुर्वाता ह्यभवंश्चामलाः प्रभाः ।

मणीनां हेमवर्णानामभिभूय दिवाकरम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 22

तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः ।

सतोरणपताकानि द्वाराणि शरणानि च ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 23

विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः ।

हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 24

तत्र ता वरहेमाभा ददर्श मधुसूदनः ।

गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 25

ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ।

नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 26

त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः ।

निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 27

परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।

सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 28

व्रतोपवासतन्वङ्ग्यः काङ्क्षन्त्यः कृष्णदर्शनम् ।

समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 29

नरकं निहतं ज्ञात्वा मुरं चैव महासुरम् ।

हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 64: पारिजातहरणे, Verse 30

ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् ।

कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः ॥ २.६४.३०॥