हरिवंशपर्व, अध्याय 61: रूक्मिवधो, Verse 1
प्रद्युम्नविवाहो रुक्मिवधश्च Pradyumna's marriage and rukmi's demise रुक्मेः पुत्र्या शुभाङ्ग्या स्वयंवरे प्रद्युम्नस्य वरणम्, प्रद्युम्नपुत्र अनिरुद्धस्य रुक्मेः पौत्र्याः रुक्मवत्या सह विवाहं एवं बलरामेण रुक्मेः वधं वैशम्पायन उवाच ।
ततः काले व्यतीते तु रुक्मी महति वीर्यवान् ।
दुहितुः कारयामास स्वयंवरमरिन्दमः ॥ १॥