हरिवंशपर्व, अध्याय 60: रुक्मिणीहरणं, Verse 1
रुक्मिपराजयः Rukmi defeated श्रीकृष्णेन रुक्मेः पराजयम्, रुक्मिण्याद्या सह श्रीकृष्णस्य विवाहः, तेभ्यः उत्पन्नानां सन्तानानां सङ्क्षेपतः परिचयं वैशम्पायन उवाच ।
कृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वा तु रुक्मिणीम् ।
प्रतिज्ञामकरोत क्रुद्धः समक्षं भीष्मकस्य ह ॥ १॥