हरिवंशपर्व, अध्याय 59: रुक्मिणीहरणे, Verse 1
रुक्मिणीहरणम् Carrying-off of rukmiNi श्रीकृष्णेन रुक्मिण्याः हरणम्, यादववीराणां जरासन्धेन एवं शिशुपालेन सह घोरयुद्धं वैशम्पायन उवाच ।
एतस्मिन्नेव काले तु जरासन्धः प्रतापवान् ।
नृपानुद्योजयामास चेदिराजप्रियेप्सया ॥ १॥