Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः

Containing 84 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 1

द्वारवतीनगरनिर्माणम् Building the city of dvAravati द्वारकापुर्याः विश्वकर्मणा निर्माणं, निधिपतेः शङ्खस्य एवं सुधर्मासभायाः आनयनम्, श्रीकृष्णेन तत्र यादवानां वसतिहेतु व्यवस्थाकरणम्, बलरामस्य रेवत्या सह विवाहः वैशम्पायन उवाच ।

ततः प्रभाते विमले भास्करे उदिते तदा ।

कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 2

परिचक्राम तं देशं दुर्गस्थानदिदृक्षया ।

उपतस्थुः कुलप्राग्र्या यादवा यदुनन्दनम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 3

रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् ।

पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान् क्रियाम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 4

ततः पङ्कजपत्राक्षो यादवान् केशिसूदनः ।

प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर्यथा ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 5

कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् ।

नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 6

इयं द्वारवती नाम पृथिव्यां निर्मिता मया ।

भविष्यति पुरी रम्या शक्रस्येवामरावती ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 7

तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च ।

चत्वरान् राजमार्गांश्च सम्यगन्तःपुराणि च ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 8

देवा इवात्र मोदन्तु भवन्तो विगतज्वराः ।

बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 9

गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः ।

मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 10

प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु ।

नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ॥ २.५८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 11

एवमुक्ते तु यदवो गृहसङ्ग्रहतत्पराः ।

यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 12

सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः ।

पुण्येऽहनि महाराज द्विजातीनभिपूज्य च ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 13

वास्तुदैवतकर्माणि विधिना कारयन्ति च ।

स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 14

अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।

विविक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 15

ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा ।

दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 16

यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च ।

स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 17

अपामग्नेः सुरेशस्य दृषदोलूखलस्य च ।

चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 18

शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च ।

तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 19

पुर्याः क्षिप्तं निवेशार्थं चिन्तयामास माधवः ।

तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 20

पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी ।

शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः ॥ २.५८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 21

विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ।

मनसा समनुध्याय तस्यागमनकारणात् ।

त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 22

तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः ।

विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 23

विश्वकर्मोवाच ।

शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत ।

किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 24

यथासौ देवदेवो मे शङ्करश्च यथाव्ययः ।

तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 25

त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज ।

एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 26

श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः ।

प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 27

श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः ।

अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 28

तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ।

मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 29

उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती ।

तथेयं हि त्वया कार्या शक्तो ह्यसि महामते ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 58: अष्टपञ्चाशत्तमोऽध्यायः, Verse 30

मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा ।

मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ॥ २.५८.३०॥