Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 1

कालयवनस्याभियोगो द्वारवतीप्रयाणं च KAlayavana's invasion, and migration to dvAravati श्रीकृष्णस्याज्ञया यादवानां द्वारकापुरीं प्रस्थानं वैशम्पायन उवाच ।

कस्यचित्त्वथ कालस्य सभ्यांस्तान् यदुसंसदि ।

बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 2

यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।

वयं चैवेह सम्भूता व्रजे च परिवर्द्धिताः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 3

तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।

नृपेषु जनितं वैरं जरासन्धेन विग्रहः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 4

वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।

रत्नानि च विचित्राणि मित्राणि च बहूनि च ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 5

इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।

वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 6

कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।

एषामपीह वसतां सम्मर्दमुपलक्षये ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 7

अत्र नो रोचते मह्यं निवासो यदुपुङ्गवाः ।

पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 8

एतद् यदनुरूपं वो ममाभिप्रायजं वचः ।

भवाय भवतां काले यदुक्तं यदुसंसदि ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 9

तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।

साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 10

ततः सम्मन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।

अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥ २.५६.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 11

कृतः सैन्यक्षयश्चापि महानिह नराधिपैः ।

बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।

न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 12

तस्मिंश्चैवान्तरे राजा सकालयवनस्तदा ।

सैन्येन तद्विधेनैव मथुरामभ्युपागमत् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 13

ततो जरासन्धबलं दुर्निवार्यमभूत् तदा ।

ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 14

केशवः पुनरेवाह यादवान् सत्यसङ्गरः ।

अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 15

ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् ।

ओघा इव समुद्रस्य बलौघप्रतिनादिताः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 16

सङ्गृह्य ते कलत्राणि वसुदेवपुरोगमाः ।

सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 17

आहत्य दुन्दुभीन् सर्वे स्वजनज्ञातिबान्धवाः ।

निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 18

स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।

सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 19

स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।

प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 20

ततो मुख्यतमाः सर्वे यादवा रणकोविदाः ।

अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥ २.५६.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 21

ते स्म नानालताचित्रं नारिकेलवनायुतम् ।

कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 22

तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।

अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 23

ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।

मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 24

पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा ।

ददर्श विपुलं देशं सागरेणोपशोभितम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 25

वाहनानां हितं चैव सिकताताम्रमृत्तिकम् ।

पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 26

सागरानिलसंवीतं सागराम्बुनिषेवितम् ।

विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 27

तत्र रैवतको नाम पर्वतो नातिदूरतः ।

मन्दरोदारशिखरः सर्वतोऽभिविराजते ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 28

तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् ।

प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 29

विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।

नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 56: द्वारवतीप्रयाणे, Verse 30

केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।

निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥ २.५६.३०॥