Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः

Containing 128 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 1

द्वारवतीप्रयाणसङ्केतः Agreement to shift to dvAravati गरुडस्य श्रीकृष्णस्य निवासयोग्यां भूमिं द्रष्टुं गमनम्, मथुरायां राजेन्द्रस्य श्रीकृष्णस्य स्वागतम्, श्रीकृष्णेन राज्ञः उग्रसेनस्य एवं मथुरावासिनां सत्कारं एवं गरुडस्य प्रत्यागत्य कुशस्थलीविषये कथनं जनमेजय उवाच ।

विदर्भनगराद् याते शक्रतुल्यपराक्रमे ।

किमर्थं गरुडो नीतः किं च कर्म चकार सः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 2

न चारुरोह भगवान् वैनतेयं महाबलम् ।

एतन्मे संशयं ब्रह्मन् ब्रूहि तत्त्वं महामुने ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 3

वैशम्पायन उवाच ।

श‍ृणु राजन् सुपर्णेन कृतं कर्मातिमानुषम् ।

विदर्भनगरीं गत्वा वैनतेयो महाद्युतिः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 4

असम्प्राप्ते च नगरीं मथुरां मधुसूदने ।

मनसा चिन्तयामास वैनतेयो महाद्युतिः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 5

यदुक्तं देवदेवेन नृपाणामग्रतः प्रभो ।

यास्यामि मथुरां रम्यां भोजराजेन पालिताम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 6

इति तद्वचनस्यान्ते गमिष्येति विचिन्तयन् ।

कृताञ्जलिपुटः श्रीमान् प्रणिपत्याब्रवीदिदम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 7

गरुड उवाच ।

देव यास्यामि नगरीं रैवतस्य कुशस्थलीम् ।

रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 8

रुक्मिणोद्वासितां रम्यां शैलोदधितटाश्रयाम् ।

वृक्षगुल्मलताकीर्णां पुष्परेणुविभूषिताम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 9

गजेन्द्रभुजगाकीर्णामृक्षवानरसेविताम् ।

वराहमानुषाक्रान्तां मृगयूथैरनेकशः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 10

तां समन्तात् समालोक्य वासार्थं ते क्षमां क्षमा ।

यदि स्याद् भवतो रम्या प्रशस्ता नगरीति च ॥ २.५५.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 11

कण्टकोद्धरणं कृत्वा आगमिष्ये तवान्तिकम् ।

वैशम्पायन उवाच ।

एवं विज्ञाप्य देवेशं प्रणिपत्य जनार्दनम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 12

जगाम पतगेन्द्रोऽपि पश्चिमाभिमुखो बली ।

कृष्णोऽपि यदुभिः सार्द्धं विवेश मथुरां पुरीम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 13

स्वैरिण्य उग्रसेनश्च नागराश्चैव सर्वशः ।

प्रत्युद्गम्यार्चयन् कृष्णं प्रहृष्टजनसङ्कुलम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 14

जनमेजय उवाच ।

श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर्वसुधाधिपैः ।

किं चकार महाबाहुरुग्रसेनो महीपतिः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 15

वैशम्पायन उवाच ।

श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिः पार्थिवोत्तमैः ।

इन्द्रेण कृतसन्धानं दूतं चित्राङ्गदं कृतम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 16

एकैकं नृपतेर्भागं शतसाहस्रसम्मितम् ।

राजेन्द्रे त्वर्बुदं दत्तं मानवेषु च वै दश ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 17

ये तत्र समनुप्राप्ता न रिक्तास्ते गृहं गताः ।

शङ्खो यादवरूपेण प्रददौ हरिचिन्तितम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 18

एवं निधिपतिः श्रीमान् दैवतैरनुमोदितः ।

इति श्रुत्वात्मिकजनाल्लोकप्रवृत्तिकान्नरात् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 19

चकार महतीं पूजां देवतायतनेष्वपि ।

वसुदेवस्य भवने तोरणोभयपार्श्वतः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 20

नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।

पताकाध्वजमालाढ्यां कारयामास वै नृपः ॥ २.५५.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 21

कंसराजस्य च सभां विचित्राम्बरसुप्रभाम् ।

पताका विविधाकारा दापयामास भोजराट् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 22

तोरणं गोपुरं चैव सुधापङ्कानुलेपनम् ।

कारयामास राजेन्द्रो राजेन्द्रस्यासनालयम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 23

नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।

पताका वनमालाढ्याः पूर्णकुम्भाः समन्ततः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 24

राजमार्गेषु राजेन्द्र चन्दनोदकसेचितम् ।

वस्त्राभरणकं राजा दापयामास भूतले ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 25

धूपं पार्श्वोभये चैव चन्दनागुरुगुग्गुलैः ।

गुडं सर्जरसं चैव दह्यमानं ततस्ततः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 26

वृद्धस्त्रीजनसङ्घैश्च गायद्भिः स्तुतिमङ्गलम् ।

अर्घं कृत्वा प्रतीक्षन्ते स्वेषु स्थानेषु योषितः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 27

एवं कृत्वा पुरानन्दमुग्रसेनो नराधिपः ।

वसुदेवगृहं गत्वा प्रियाख्यानं निवेद्य च ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 28

रामेण सह सम्मन्त्र्य निर्गतो रथमन्तिकम् ।

तस्मिन्नेवान्तरे राजञ्शङ्खध्वनिरभून्महान् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 29

पाञ्चजन्यस्य निनदं श्रुत्वा मधुरवासिनः ।

स्त्रियो वृद्धाश्च बालाश्च सूता मागधबन्दिनः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 55: पञ्चपञ्चाशत्तमोऽध्यायः, Verse 30

विनिर्ययुर्महासेना रामं कृत्वाग्रतो नृप ।

अर्घ्य पाद्यं पुरस्कृत्य उग्रसेनेन धीमता ॥ २.५५.३०॥