हरिवंशपर्व, अध्याय 52: रुक्मिणीस्वयंवरे, Verse 1
कालयवनं प्रति शालवगमनम् ShAlva sent to seek kAlayavana's help शाल्वस्य कथनानुसारेण जरासन्धादिभिः नरेशेभिः शाल्वमेव कालयवनसमीपे दूतरूपेण प्रेषणं वैशम्पायन उवाच ।
ततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः ।
सभां समाजग्मुः सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते ॥ १॥