Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे

Containing 91 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 1

भीष्मकसंसदि कृष्णेनाश्वासनम् KRiShNa's assuranace in bhIShmaka's assembly क्रथकैशिकाभ्यां भगवन्तं श्रीकृष्णं स्वराज्यस्य समर्पणम्, देवराजस्य इन्द्रस्यादेशात् सर्वैः नृपैः भगवन्तः राजेन्द्र पदे अभिषेकः, भगवता सर्वेषां आश्वासनं जनमेजय उवाच ।

हत्या कंसं महावीर्यं देवैरपि दुरासदम् ।

नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 2

कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।

अमानमतुलं प्राप्य क्षान्तवान् केन हेतुना ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 3

विनतायाः सुतश्चैव महाबलपराक्रमः ।

स चापि क्षमया युक्तः कारणं किमपेक्षिनः ।

एतदाख्याहि भगवन् परं कौतूहलं हि मे ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 4

वैशम्पायन उवाच ।

ग्दिर्भनगरीं प्र;प्ते वैनतेये सदुरने ।

मनसा चिन्तयामास वासुदेवाय कशिकः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 5

दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् राजन्यान् प्रवदाम्यहम् ।

वसुदेवसुते दृष्टे ध्रुवं पापक्षयो भवेत् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 6

विशुद्धभावः कृष्णस्य आवयोर्दृष्टक्तवतः ।

अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 7

कृष्णात् कमलपत्राक्षाद् दैवदैवाज्जनार्दनात् ।

तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 8

एवमन्योन्यं सञ्चिन्त्य भ्रातरौ क्रथकैशिकौ ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 9

स्वं राज्यं दातुकामोतु जग्मतुः केशवान्तिकम् ।

देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 10

ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।

अद्यावां सफलं जन्म अद्यावां सफलं यशः ।

अद्यावां पितरस्तृप्ता देवे चावां गृहागते ॥ २.५०.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 11

चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।

स्फीतकोशा पुरी चेयमावाभ्यां सहिता तव ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 12

उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।

आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 13

आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।

न शक्यतेऽन्यथा कर्तुं जरासन्धेन वा स्वयम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 14

शत्रुस्ते मागधो राजा जरासन्धो महाद्युतिः ।

कथां ते ब्रुवते नित्यं नृपाणामभयप्रदः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 15

सिंहासनमनध्यास्यं पुरं चास्य न विद्यते ।

कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 16

कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।

न चागमिष्यते वास्मिन् कन्यार्थे च स्वयंवरे ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 17

पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।

कथमास्यति नीचेषु आसनेषु महाद्युतिः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 18

इति सञ्चोद्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।

आवयोः सह सम्मन्त्र्य विग्रहोपशमाय च ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 19

तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।

देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 20

मानुष्ये मर्न्यलोकैऽस्मिन् राजेन्द्रत्वं समाचर ।

समाजे मनुजेन्द्राणां मा भूदासनसङ्कटम् ॥ २.५०.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 21

विदर्भनगरे वैषां राजेन्द्रत्वं विचेष्टय ।

आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 22

अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।

य गमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 23

एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।

भूषयामासतुवीरौ रङ्गमध्ये नृपैर्वृते ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 24

देवदूतस्य वचनं यथोक्तं वज्रपाणिना ।

लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 25

कैशिक उवाच ।

विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।

आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 26

प्राप्तमालोक्य पात्रोऽयमिति सञ्चिन्त्य भूपतिः ।

प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 27

इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।

वागुक्ता चाशरीरेण केनापि व्योमचारिणा ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 28

देवदूत उवाच ।

न युक्तमासनं दातुं त्वयासीनं नराधिप ।

इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 29

जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।

प्रेषितं देवराजेन सिंहलक्षणलक्षितम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: रुक्मिणीस्वयंवरे, Verse 30

अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।

अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ॥ २.५०.३०॥