Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे

Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 1

दन्तवक्त्रस्य भाषणं भीष्मकस्य निर्णयश्च् Dantavaktra's speech and bhIShmaka's review दन्तवक्त्रशाल्वयोः भाषणं श्रुत्वा भीष्मकेण श्रीकृष्णस्य प्रभावं वर्णयित्वा तं प्रसन्नकर्तुमेव निश्चयकरणं वैशम्पायन उवाच ।

इत्येवमुक्ते वचने सुनीथेन महात्मना ।

करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 2

दन्तवक्त्र उवाच ।

यदुक्तं मागधेनात्र सुनीथेन नराधिपाः ।

युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 3

न च विद्वेषणेनाहं न चाहङ्कारवादिना ।

न चात्मविजिगीषुत्वाद् दूषयामि वचोऽमृतम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 4

वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।

क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 5

किं त्वनुस्मरणार्थेऽहं यद् ब्रवीमि श‍ृणुष्व मे ।

आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 6

यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।

किमत्र दोषो गौण्यो वा कन्याहेतोः समागताः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 7

यदस्माभिः समेत्यैक्यात् कृतं गोमन्तरोधनम् ।

तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 8

वनवासे स्थितौ वीरौ कंसव्यामोहद्वेतुना ।

देवर्षिवचनाद् राजन् वृन्दावनतटे स्थितौ ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 9

तावाहूय वधार्थेन उभौ रामजनार्दनौ ।

नागेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 10

ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।

गतासुरिव चासीनो मथुरेशः सहानुगः ॥ २.४९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 11

किमत्र विहितो दोषो येनास्माभिर्वयेऽधिकैः ।

उपरोधपरा राजन् वयं सर्वे समागताः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 12

सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।

पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 13

तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः ।

अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 14

रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।

कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 15

दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।

विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।

प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 16

यत्र यत्र प्रयास्यामो वयं तत्र भवेत् कलिः ।

प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 17

इदं कुण्डिनपुरं कृष्णो नागतः कलिहेतुना ।

कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 18

मर्त्येऽस्मिन् पुरुषेन्द्रोऽसौ न कश्चित् प्राकृतो नरः ।

देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 19

देवानामपि कर्तासौ लोकानां च विशेषतः ।

न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 20

न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।

एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ॥ २.४९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 21

आगतो गरुडेनेहच्छद्मप्राकाश्यहेतुना ।

नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 22

इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।

सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 23

अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।

करिष्यामो वयं सर्वे केशवाय महात्मने ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 24

एवं सन्धानतः कृत्वा कृष्णेन सहिता वयम् ।

वसामो विगतोद्वेगा निर्भया विगतज्वराः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 25

तस्य तद वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।

शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 26

शाल्व उवाच ।

किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।

सन्धानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 27

परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।

नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 28

महत्सु राजवंशेषु सम्भूताः कुलवर्द्धनाः ।

तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 29

अहं जानामि वै कृष्णमादिदेवं सनातनम् ।

प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: रुक्मिणीस्वयंवरे, Verse 30

वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।

सम्भूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥ २.४९.३०॥