हरिवंशपर्व, अध्याय 48: रुक्मिणीस्वयंवरे, Verse 1
विदर्भसभायां जरासंधसुनीथयोर्भाषणं Presentations in the vidarbha council by jarAsandha and sunItha श्रीकृष्णस्य आगमनेन चिन्तितानां राजानां सभायां जरासन्धसुनीथानां भाषणं वैशम्पायन उवाच ।
ते कृष्णमागतं दृष्ट्वा वैनतेयसहाच्युतम् ।
बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ॥ १॥