हरिवंशपर्व, अध्याय 47: रुक्मिणीस्वयंवरे, Verse 1
रुक्मिणीस्वयंवरार्थं कृष्णस्य कुण्डिनपुरं प्रति गमनम् KRiShNa goes to kuNDinapura to attend Rukmini's Svayamvara श्रीकृष्णस्य यादवैः सह रुक्मिणीस्वयंवरावसरे कुण्डिनपुरे गमनम्, राज्ञा कैशिकेन तेषां सत्कारं वैशम्पायन उवाच ।
एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।
चक्रायुधगृहं सर्वे लोकपालगृहोपमम् ॥ १॥