Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 1

आदिसर्गः First creation नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 2

द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यम्पवित्रमथ पापहरं शिवं च ।

यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 3

जयति पराशरसूनुः सत्यवतीहदयनन्दनो व्यासः ।

यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 4

यो गोशतं कनकश‍ृङ्गमयं ददाति विप्राय वेदविदुषे बहुविश्रुताय ।

पुण्यां च भारतकथां श‍ृणुयाच्च तद्वत् तुल्यं फलं भवति तस्य च तस्य चैव ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 5

शताश्वमेधस्य यदत्र पुण्यं चतुःसहस्रस्य शतक्रतोश्च ।

भवेदनन्तं हरिवंशदानात् प्रकीर्तितं व्यासमहर्षिणा च ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 6

यद् वाजपेयेन तु राजसूयाद् दृष्टं फलं हस्तिरथेन चान्यत् ।

तल्लभ्यते व्यासवचः प्रमाणं गीतं च वाल्मीकिमहर्षिणा च ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 7

यो हरिवंशं लेखयति यथाविधिना महातपाः सपदि ।

च जयति हरिपदकमलं मधुपो हि यथा रसेन लुब्धः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 8

पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमक्षय्यविभूतियुक्तम् ।

नारायणस्यांशजमेकपुत्रं द्वैपायनं वेद महानिधानम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 9

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।

ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 10

असच्च सदसच्चैव यद्विश्वं सदसत्परम् ।

परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ १.१.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 11

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 12

नैमिषारण्ये कुलपतिः शौनकस्तु महामुनिः ।

सौतिं पप्रच्छ धर्मात्मा सर्वशास्त्रविशारदः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 13

शौनक उवाच ।

सौते सुमहदख्यानं भवता परिकीर्तितम् ।

भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 14

देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।

दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 15

अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।

विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 16

कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा ।

मनःकर्णसुखं सौते प्रीणात्यमृतसम्मितम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 17

तत्र जन्म कुरूणां वै त्वयोक्तं लौमहर्षणे ।

न तु वृष्ण्यन्धकानां च तद् भवान् वक्तुमर्हति ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 18

सौतिरुवाच ।

जनमेजयेन यत्प्रष्टः शिष्यो व्यासस्य धर्मवित् ।

तत् तेऽहं सम्प्रवक्ष्यामि वृष्णीनां वंशमादितः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 19

श्रुत्वेतिहासं कार्त्स्न्येन भारतानां स भारतः ।

जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 20

जनमेजय उवाच ।

महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।

कथितं भवता पूर्वं विस्तरेण मया श्रुतम् ॥ १.१.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 21

तत्र शूराः समाख्याता बहवः पुरुषर्षभाः ।

नामभिः कर्मभिश्चैव वृष्ण्यन्धकमहारथाः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 22

तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम ।

तत्र तत्र समासेन विस्तरेणैव मे प्रभो ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 23

न च मे तप्तिरस्तीह कथ्यमाने पुरातने ।

एकश्चैव मतो राशिर्वृष्णयः पाण्डवास्तथा ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 24

भवांश्च वंशकुशलस्तेषां प्रत्यक्षदर्शिवान् ।

कथयस्व कुलं तेषां विस्तरेण तपोधन ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 25

यस्य यस्यान्वये ये ये तांस्तानिच्छामि वेदितुम् ।

स त्वं सर्वमशेषेण कथयस्व महामुने ।

तेषां पूर्वविसृष्टिं च विचिन्त्येमां प्रजापतेः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 26

सौतिरुवाच ।

सत्कृत्य परिपृष्टस्तु स महात्मा महातपाः ।

विस्तरेणानुपूर्व्या च कथयामास तां कथाम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 27

वैशम्पायन उवाच ।

श‍ृणु राजन् कथां दिव्यां पुण्यां पापप्रमोचनीम् ।

कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 28

यश्चेमां धारयेद् वापि श‍ृणुयाद् वाऽप्यभीक्ष्णशः ।

स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 29

अव्यक्तं कारणं यत् तन्नित्यं सदसदात्मकम् ।

प्रधानं पुरुषं तस्मान्निर्ममे विश्वमीश्वरम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: आदिसर्गकथने, Verse 30

तं वै विद्धि महाराज ब्रह्माणममितौजसम् ।

स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ १.१.३०॥