Complete Upanishad, Verse 1
गोपालतापिन्युपनिषत्
श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥
व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥
हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
मुनयो ह वै ब्राह्मणमूचुः ।
कः परमो देवः कुतो मृत्युर्बिभेति ।
कस्य विज्ञानेनाखिलं विज्ञातं भवति ।
केनेदं विश्वं संसरतीति ।
तदुहोवाच ब्राह्मणः ।
कृष्णो वै परमं दैवतम् ।
गोविन्दान्मृत्युर्बिभेति ।
गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।
स्वाहेदं विश्वं संसरतीति ।
तदुहोचुः ।
कः कृष्णः ।
गोविन्दश्च
कोऽसाविति ।
गोपीजनवल्लभश्च कः ।
का स्वाहेति ।
तानुवाच ब्राह्मणः ।
पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।
तन्माया चेति सकलं परं ब्रह्मैव तत् ।
यो ध्यायति रसति भजति
सोऽमृतो भवतीति ।
ते होचुः ।
किं तद्रूपं किं रसनं किमाहो
तद्भजनं तत्सर्वं विविदिषतामाख्याहीति ।
तदुहोवाच हैरण्यो
गोपवेषमभ्रामं कल्पद्रुमाश्रितम् ।
तदिह श्लोका भवन्ति ॥
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम्