Garuda Upanishad

Complete Upanishad

Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Upanishad

Complete Upanishad, Verse 1

गरुडोपनिषत्

विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।

ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां

नारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रो

भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् ।

अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः ।

गायत्री छन्दः ।

श्रीभगवान्महागरुडो देवता ।

श्रीमहागरुडप्रीत्यर्थे मम

सकलविषविनाशनार्थे जपे विनियोगः ।

ॐ नमो भगवते

अङ्गुष्ठाभ्यां नमः ।

श्री महागरुडाय तर्जनीभ्यां स्वाहा ।

पक्षीन्द्राय मध्यमाभ्यां वषट् ।

श्रीविष्णुवल्लभाय

अनामिकाभ्यां हुम् ।

त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।

उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् ।

एवं हृदयादिन्यासः ।

भूर्भुवः सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् ।

प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम्

Garuda Upanishad

Complete Upanishad, Verse 2

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।

तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते

Garuda Upanishad

Complete Upanishad, Verse 3

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके ।

शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे

Garuda Upanishad

Complete Upanishad, Verse 4

पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् ।

एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम्

Garuda Upanishad

Complete Upanishad, Verse 5

कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् ।

दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम्

Garuda Upanishad

Complete Upanishad, Verse 6

आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् ।

कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम्

Garuda Upanishad

Complete Upanishad, Verse 7

नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् ।

दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम्

Garuda Upanishad

Complete Upanishad, Verse 8

कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।

विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम

Garuda Upanishad

Complete Upanishad, Verse 9

एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् ।

विषं नाशयते शीघ्रं तूलरशिमिवानलः