Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमोऽध्यायः श्रीगरुडमहापुराणम्- ९ हरिरुवाच ।

समये (या) दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा ।

अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत् ॥

१,९.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 2

द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम् ।

निर्वाणदेशिके रुद्र ! चतुर्गुणमुदाहृतम् ॥

१,९.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 3

गुरुविष्णुद्विजस्त्रीणां हन्ता बध्यस्त्व(श्च)दीक्षितैः ।

अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम् ॥

१,९.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 4

उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत् ।

वायव्या कलया रुद्र शोष्यमाणान्विचिन्तयेत् ॥

१,९.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 5

आग्रेय्या दह्यमानांश्च प्लावितानम्भसा पुनः ।

तेजस्तेजासि तं जीवमेकीकृत्य समाक्षिपेत् ॥

१,९.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 6

प्राणवं चिन्तयेव्द्योम्नि शरीरेऽन्यत्तु कारणम् ।

एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात् ॥

१,९.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 7

उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज ।

मण्डलादिष्वशक्तस्तु कल्पयित्वाऽर्चयेद्धरिम् ॥

१,९.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 8

चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात् ।

हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः ॥

१,९.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 9

कर्णिका तलहस्तन्तु नखान्यस्य तु केसराः ।

तत्रार्चयेद्धरिं ध्यात्वा सूर्यन्द्वग्नयन्तरेव च ॥

१,९.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 10

तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः ।

हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम् ।

नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च ॥

१,९.१० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 11

गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा ।

देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः ।

पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः ॥

१,९.११ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 9, Verse 12

तन्नाम कारयेत्तस्य स्त्रीणां नामाङ्कितं स्वयम् ।

शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः ॥

१,९.१२ ॥