पूर्वखण्डः (आचारकाण्डः), अध्याय 81, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः श्रीगरुडमहापुराणम्- ८१ (इति रत्नमुक्तादि परीक्षा समाप्ता ) ।
(अथ तीर्थक्षेत्रमाहात्म्यमारभ्यते ) ।
सूत उवाच ।
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा ।
सर्वत्र सुलभा गङ्गात्रिषु स्थानेषु दुर्लभा ॥
१,८१.१ ॥