Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 80

Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 80, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमोऽध्यायः श्रीगरुडमहापुराणम्- ८० सूत उवाच ।

आदाय शेषस्तस्यान्त्रं बलस्य केलादिषु ।

चिक्षेप तत्र जायन्ते विद्रुमाः सुभहागुणाः ॥

१,८०.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 80, Verse 2

तत्र प्रधानं शशलोहिताभं गुञ्जाजपापुष्पनिभं प्रदिष्टम् ।

सुनीलकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम् ॥

१,८०.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 80, Verse 3

अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् ।

प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत् ॥

१,८०.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 80, Verse 4

धनधान्यकरं लोके विषार्तिभयनाशनम् ।

परीक्षा पुलकस्योक्ता रुधिराक्षस्य वै मणेः ।

स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥

१,८०.४ ॥