Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 77

Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 77, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम षट्सप्ततितमोऽध्यायः श्रीगरुडमहापुराणम्- ७७ सूत उवाच ।

पुण्येषु पर्वतवरेषु च निम्नगासु स्थानान्तरेषु च तथोत्तरदेशगत्वात् ।

संस्थापिताः स्वनखबाहुगतेः प्रकाशं सम्पूज्य दानवपतिं प्रथिते प्रदेशे ॥

१,७७.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 77, Verse 2

दाशार्णवागदर (व) मेकलकालगादौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः ।

गन्धर्ववह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः ॥

१,७७.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 77, Verse 3

शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरुर्(व्य) पेताः परमाः पवित्राः ।

मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति ॥

१,७७.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 77, Verse 4

काका (क ।

)श्वरासभसृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः ।

मृत्युप्रदाश्च विदुषा परिवर्जनीया मूल्यं पलस्य कथितं च शतानि पञ्च ॥

१,७७.४ ॥