Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमोऽध्यायः श्रीगरुडमहापुराणम्- ७६ सूत उवाच ।

हिमवत्युत्तरदेशे वीर्यं पतितं सुरद्विषस्तस्य ।

सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥

१,७६.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 2

शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभा प्रभावन्तः ।

प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥

१,७६.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 3

हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः ।

भीष्ममणिं ग्रीवादिषु सुसम्पदं स सर्वदा लभते ॥

१,७६.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 4

निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपऽपि ।

द्वीपिवृकशरभकुञ्जरसिंहव्याघ्रादयो हिंस्त्राः ॥

१,७६.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 5

तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति ।

भीष्ममणिर्गुणयुक्तो सम्यक्प्राप्ताङ्गुलीकलत्रत्वः ॥

१,७६.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 6

पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ।

शाम्यन्त्यद्भुतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि ।

सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥

१,७६.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 7

शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम् ।

मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥

१,७६.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 76, Verse 8

मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात् ।

दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥

१,७६.८ ॥