Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 74

Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 74, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः श्रीगरुडमहापुराणम्- ७४ सूत उवाच ।

पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः ।

प्रादुर्भवन्ति ताभ्यस्तु पुष्प (ष्य) रागा महागुणाः ॥

१,७४.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 74, Verse 2

आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु ।

कौकण्टकनामा स्यात्स एव यदि लोहितापीतः ॥

१,७४.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 74, Verse 3

आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः ।

आनीलशुक्लवर्णः स्निग्धः सोमाल(न) कः सगुणः ॥

१,७४.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 74, Verse 4

अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् ।

अपि चेन्द्रनीलसंज्ञः स एव कथितः सुनीलः सन् ॥

१,७४.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 74, Verse 5

मूल्यं वैदूर्यमणेरिव गादितं ह्यस्य रत्नसारविदा ।

धारणफलं च तद्वत्किं तु स्त्रीणां सुतप्रदो भवति ॥

१,७४.५ ॥