पूर्वखण्डः (आचारकाण्डः), अध्याय 70, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः श्रीगरुडमहापुराणम्- ७० सूत उवाच ।
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् ।
असृग्गृहीत्वा चरितुं प्रतस्थे निस्त्रिंशनीलेन नभः स्थलेन ॥
१,७०.१ ॥