Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमोऽध्यायः श्रीगरुडमहापुराणम्- ६९ सूत उवाच ।

द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि ।

मुक्ताफलानि प्रथितानि लोके तेषां च शुक्त्युद्भवमेव भूरि ॥

१,६९.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 2

तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु ।

वेध्यं तु शुक्तयुद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥

१,६९.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 3

त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम् ।

प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥

१,६९.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 4

या मौक्तिकानामिह जातयेऽष्टौ प्रकीर्तिता रत्नविनिश्चयज्ञैः ।

कम्बूद्भवं तेष्वधमं प्रदिष्टमुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥

१,६९.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 5

स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम् ।

उत्पद्यते वारणकुम्भमध्यादापीतवर्णं प्रभया विहीनम् ॥

१,६९.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 6

ये कम्बवः शार्ङ्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे ।

मतङ्गजाश्चापि विशुद्धवंश्यास्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥

१,६९.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 7

उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम् ।

पाठीनपृष्ठस्य समानवर्णं मीनात्सुवृत्तं लघु चातिसूक्ष्मम् ॥

१,६९.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 8

उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः ।

वराहदंष्ट्राप्रभवं प्रदिष्टं तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् ॥

१,६९.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 9

क्रचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरराड्विशिष्टः ।

वर्षोपलानां समवर्णशोभं त्वक्सारपर्वप्रभवं प्रदिष्टम् ॥

१,६९.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 10

ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये ।

भौजं गमं मीनविशुद्धवृत्तं संस्थानतोऽत्युज्ज्वलवर्णशोभम् ॥

१,६९.१० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 11

नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति ।

प्राप्यातिरत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम् ॥

१,६९.११ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 12

तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य ।

जिज्ञासया रत्नधनं विधिज्ञैः शुभेमुहूर्ते प्रयतैः प्रयत्नात् ॥

१,६९.१२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 13

रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत् ।

तदा महादुन्दुभिमन्द्रघोषैर्विद्युल्लताविस्फुरितान्तरालैः ॥

१,६९.१३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 14

पयोधराक्रान्तिविलम्बिनम्रैर्घनैर्नवैराव्रियतेऽन्तरिक्षम् ।

न तं भुजङ्गा न तु यातुधाना न व्याधयो नाप्युपसर्गदोषाः ॥

१,६९.१४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 15

हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये ।

नाभ्येति मेघप्रभवं धरित्रीं विप्रद्गतं तद्विबुधा हरन्ति ॥

१,६९.१५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 16

अर्चिः प्रभानावृतदिग्विभागमादित्यवहुः खविभाव्यबिम्बम् ।

तेजस्तिरस्कृत्य हुताशनेन्दुनक्षत्रताराप्रभवं समग्रम् ॥

१,६९.१६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 17

दिवा यथा दीर्प्तिङ्करं तथैव तमोऽवगाढास्वपि तन्निशासु ।

विचित्ररत्नद्युतिचारुतोया चतुः समुद्राभरणोपपन्ना ॥

१,६९.१७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 18

मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य मुवर्णपूर्णा ।

हीनोऽपियस्तल्लभते कदाचिद्विपाकयोगान्महतः शुभस्य ॥

१,६९.१८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 19

सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ।

न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म ॥

१,६९.१९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 20

तद्योजनानां परितः सहस्रं सर्वाननर्थान्विमुखी करोति ।

नक्षत्रमालेव दिवो विशीर्णा दन्तावलिस्तस्य महामुरस्य ॥

१,६९.२० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 21

विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात ।

सम्पूर्णचन्द्रांशुकलापकान्तेर्माणिप्रवेकस्य महागुणस्य ॥

१,६९.२१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 22

तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराप्यन्यभवानि यानि ।

यस्मिन्प्रदेशेऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम् ।

तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥

१,६९.२२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 23

सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः ।

कौवेरपाण्ड्यहाटकहेमकमित्याकरास्त्वष्टौ ॥

१,६९.२३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 24

शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः ।

उत्पद्यते वर्धनपारसीकपाताललोकान्तरसिंहलेषु ॥

१,६९.२४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 25

चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान् ।

न च व्यवस्थास्ति गुणागुणेषु सर्वत्र सर्वाकृतयो भवन्ति ॥

१,६९.२५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 26

एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य ।

मूल्यं सहस्राणि तु रूपकाणां त्रिभिः शतैरप्याधिकानि पञ्च ॥

१,६९.२६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 27

यन्माषकार्धेन ततो विहीनं तत्पञ्चभागद्वयहीनमूल्यम् ।

यन्माषकांस्त्रीन्बिभृयात्सहस्रे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥

१,६९.२७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 28

अर्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्रम् ।

द्विमाष कोन्मानितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥

१,६९.२८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 29

अर्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम् ।

गुञ्जाश्च षड्धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः ।

अध्यर्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥

१,६९.२९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 69, Verse 30

यदि षोडशभिर्भवेदनूनन्धरणं तत्प्रवदन्ति दार्विकाख्यम् ।

अधिकं दशभिः शतं च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात् ॥

१,६९.३० ॥