Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्वरोदये शुभाशुभनिरूपणं नाम सप्तषष्टितमोऽध्यायः श्रीगरुडमहापुराणम्- ६८ सूत उवाच ।

परिक्षां वच्मिरत्नानां बलो नामासुरोऽभवत् ।

इन्द्राद्या निर्जितास्तेन विजेतुं तैर्न शक्यते ॥

१,६८.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 2

वरव्याजेन पशुतां याचितः स सुरैर्मखे ।

बलो ददौ स (स्व) पशुतामतिसत्त्व सुरैर्हतः ॥

१,६८.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 3

पशुवत्स विशस्तस्तैः स्ववाक्याशनियन्त्रितः ।

बलो लोकोपराय देवानां हितकाम्यया ॥

१,६८.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 4

तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा ।

कायस्यावयवाः सर्वे रत्नबीजत्वमाययुः ॥

१,६८.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 5

देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ।

रत्नबीजंस्व(जम)यं ग्राहः सुमहानभवत्तदा ॥

१,६८.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 6

तेषां तु पततां वेगाद्विमानेन विहायसा ।

यद्यत्पपात रत्नानां बीजं क्रचन किञ्चन ॥

१,६८.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 7

महोदधौ सरिति वा पवर्त काननेऽपि वा ।

तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥

१,६८.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 8

तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च ।

प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥

१,६८.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 9

वज्रं मुक्तामणयः सपद्मरागाः समरकताः प्रोक्ताः ।

अपि चेन्द्रनीलमणिवरवैदूर्याः पुष्परागाश्च ॥

१,६८.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 10

कर्केतनं सपुलकं रुधिराख्यसमन्वितं तथा स्फटिकम् ।

विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥

१,६८.१० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 11

आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च ।

मूल्यं च रत्नकुशलैर्विज्ञेयं सर्वशास्त्राणाम् ॥

१,६८.११ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 12

कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि ।

दौषैस्तान्यपियुज्यन्ते हीयन्ते गुणसम्पदा ॥

१,६८.१२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 13

परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा ।

धारणं संग्रहो वापि कार्यः श्रियमभीप्सता ॥

१,६८.१३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 14

शास्त्रज्ञः कुशलाश्चापि रत्नभाजः परीक्षकाः ।

त एव मूल्यमात्राया वेत्तारः परिकीर्तिताः ॥

१,६८.१४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 15

महा प्रभावं विबुधैर्यस्यमाद्वज्रमुदाहृतम् ।

वज्रपूर्वा परीक्षेयं ततोऽस्माभिः प्रकीर्त्यते ॥

१,६८.१५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 16

तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव ।

वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु ॥

१,६८.१६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 17

हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोसलाः ।

वेण्वातटाः ससौवीरा वज्रस्याष्ट विहारकाः ॥

१,६८.१७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 18

आताम्रा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे त्वसिताब्जमेघसदृशास्ताभ्राश्च सौराष्ट्रजाः ।

कालिङ्गाः कन कावदातरुचिराः पीतप्रभाः कोसले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः ॥

१,६८.१८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 19

अत्यर्थं लघु वर्णतश्च गुणवत्पार्श्वेषु सम्यक्समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् ।

लोकेऽस्मिन्परामाणुमात्रमपि यद्वज्रं क्रचिद्दृश्यते तस्मिन्देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि ॥

१,६८.१९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 20

वज्रेषु वर्णयुक्त्या देवानामपि विग्रहः प्रोक्तः ।

वर्णेभ्यश्च विभागः कार्यो वर्णाश्रयादेव ॥

१,६८.२० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 21

हरितसितपीतपिङ्गश्यामास्ताम्राः स्वभावतो रुचिराः ।

हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः ॥

१,६८.२१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 22

विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्रियस्य शशबभ्रुविलोचनाभः ।

वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः ॥

१,६८.२२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 23

द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।

यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारसन्निकाशः ॥

१,६८.२३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 24

ईशत्वात्सर्ववर्णानां गुणवत्सार्बवर्णिकम् ।

कामतो धारयेद्राजा न त्वन्योऽन्यत्कथञ्चन ॥

१,६८.२४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 25

अधरोत्तरवृत्तया हि यादृक्स्याद्वर्णसङ्करः ।

ततः कष्टतरो वज्रवर्णानां सङ्करो मतः ॥

१,६८.२५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 26

न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः ।

गुणवद्गुणसम्पदां विभूतिर्विपरीतो व्यसनोदयस्य हेतुः ॥

१,६८.२६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 27

एकमपि यस्य श‍ृङ्गं विदलितमवलोक्यते विशीर्णं वा ।

गुणवदपि तन्न धार्यं वज्रं श्रेयोऽर्थिभिर्भवने ॥

१,६८.२७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 28

स्फुटिताग्निवि शीर्णश‍ृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम् ।

न हि वज्रभृतोऽपि वज्रमाशु श्रियमप्याश्रयलालसां न कुर्यात् ॥

१,६८.२८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 29

यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम् ।

न तन्न कुर्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥

१,६८.२९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 68, Verse 30

कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च ।

उत्तुङ्गसमतीक्ष्णाग्राः वज्रस्याकरजा गुणाः ॥

१,६८.३० ॥