Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुंल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः श्रीगरुडमहापुराणम्- ६४ हरिरुवाच ।

यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम् ।

नाभिश्च दक्षिणावर्ता सा कन्या कुलवर्धिनी ॥

१,६४.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 2

या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा ।

सहस्राणां तु नारीणां भवेत्सापि पतिव्रता ॥

१,६४.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 3

वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत् ।

भर्ता च म्रियते तस्या नियतं दुःखभागिनी ॥

१,६४.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 4

पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा ।

विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ॥

१,६४.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 5

रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता ।

रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतांव्रजेत् ॥

१,६४.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 6

कार्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च ।

स्त्रेहेषु भार्या माता स्याद्वेश्या च शयने शुभा ॥

१,६४.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 7

अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् ।

पुत्रं प्रसूयते नारी नरेन्द्रं लभते पतिम् ॥

१,६४.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 8

यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ ।

अन्नतौ चाधरोष्ठौ च क्षिप्रं मारयते पतिम् ॥

१,६४.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 9

यस्याः पाणितले रेखा प्राकारस्तोरणं भवेत् ।

अपि दासकुले जाता राज्ञीत्वमुपगच्छति ॥

१,६४.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 10

उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम् ।

अपि राजकुले जाता दासीत्वमुपगच्छति ॥

१,६४.१० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 11

यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः ।

पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते ॥

१,६४.११ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 12

यस्या गमनमात्रेण भूमिकम्पः प्रजायते ।

पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते ॥

१,६४.१२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 13

चक्षुः स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।

त्वचः स्नेहेन शाय्यां च पादस्नेहेन वाहनम् ॥

१,६४.१३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 14

स्निग्धोन्नतौ ताम्रनखौ नार्याश्च चरणौ शुभौ ।

मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ ॥

१,६४.१४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 15

अस्वेदिनौ मूदुतलौ प्रशस्तौ चरणौ स्त्रियाः ।

शुभे जङ्घे विरोमे च ऊरू हस्तिकरोपमौ ॥

१,६४.१५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 64, Verse 16

अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ।

नाभिः प्रशस्ता गम्भीरा दक्षिणावर्तिका शुभा ।

अरोमा त्रिवली नार्या हृत्स्तनौ रोमवर्जितौ ॥

१,६४.१६ ॥