Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमोऽध्यायः श्रीगरुडमहापुराणम्- ६ हरिरुवाच ।

उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः ।

सुनीत्यां तु ध्रुवः पुत्रः स लेभे स्थानमुत्तमम् ॥

१,६.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 2

मुनिप्रसादादाराध्य देवदेवं जनार्दनम् ।

ध्रुवस्य तनयः श्लिष्टिर्महाबलपराक्रमः ॥

१,६.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 3

तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः ।

दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः ॥

१,६.३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 4

रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः ।

रुरुस्तस्य सुतः श्रीमानङ्गस्तस्यापि चात्मजः ॥

१,६.४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 5

अङ्गस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः ।

अधर्मकारी वेण(न) श्च मुनिभिश्च कुशैर्हतः ॥

१,६.५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 6

ऊरुं ममन्थुः पुत्रार्थे ततोऽस्य तनयोऽभवत् ।

ह्रस्वोऽतिमात्रः कृष्णाङ्गो निषीदेति ततोऽब्रुवन् ॥

१,६.६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 7

निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः ।

ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः ॥

१,६.७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 8

तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक् ।

पुथुरित्येवनामा स वेणपुत्रो दिवं ययौ ॥

१,६.८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 9

दुदोह पृथिवीं राजा प्रजानां जीवनाय हि ।

अन्तर्धानः पृथोः पुत्रो तहविर्धानस्तदात्मजः ॥

१,६.९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 10

प्राचीनवहर्स्तेत्पुत्रः पृथिव्यामेकराड्बभौ ।

उपयेमे समुद्रस्य लवणस्य स वै सुताम् ॥

१,६.१० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 11

तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः ।

सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥

१,६.११ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 12

अपृथगधर्मचरणास्तेऽतप्यन्त महत्तपः ।

दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥

१,६.१२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 13

प्रजापतित्वं सम्प्राप्य भार्या तेषां च मारिष ।

अभवद्धवशापेन तस्यां दक्षोऽभवत्ततः ॥

१,६.१३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 14

असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्वोधाः ।

नावर्धन्त च तास्तस्य अपध्याता हरेण तु ॥

१,६.१४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 15

मैथुनेन ततः सृष्टिं कर्तुमैच्छत्प्रजापतिः ।

असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥

१,६.१५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 16

तस्य पुत्रसहस्रं तु वैरण्यां समपद्यत ।

नारदोक्ता भुवश्चान्तं गता ज्ञातुं च नागताः ॥

१,६.१६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 17

दक्षपुत्रसहस्रं च तेषु नष्टेषु सृष्टवान् ।

शवलाश्वास्तेऽपि गता भ्रातॄणां पदवीं हर ! ॥

१,६.१७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 18

दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि ।

नारदो ह्यभवत्पुत्रः कश्यपस्य मुनेः पुनः ॥

१,६.१८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 19

यज्ञे ध्वस्तेऽथ दक्षोऽपि शशाप्रोग्रं महेश्वरम् ।

स्तुत्वात्वामुपचारैश्च पूजयिष्यन्ति शङ्कर ॥

१,६.१९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 20

जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर ! ।

तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ।

असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ॥

१,६.२० ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 21

षष्टिं कन्या रूपयुता द्वे चैवाङ्गिरसे ददौ ।

द्वे प्रादात्स कृशाश्वाय दश धर्माय चाप्यथ ॥

१,६.२१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 22

चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे ।

प्रददौ बहुपुत्राय सुप्रभां भामिनीं तथा ॥

१,६.२२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 23

मनोरमां भानुमतीं विशालां बहुदामथ ।

दक्षः प्रादान्महादेव ! चतस्रोऽरिष्टनेमये (ने) ॥

१,६.२३ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 24

स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम् ।

अरुन्धती वसुर्यार्(जा) मी लम्बा भानुर्मरुद्वती ॥

१,६.२४ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 25

सङ्कल्पा च मुहूर्ता च साध्या विश्वा च ता दश ।

धर्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ॥

१,६.२५ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 26

अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः ।

कद्रूः साध्या हरा क्रोधा विनता सुरभिः खगा ॥

१,६.२६ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 27

विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ।

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥

१,६.२७ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 28

भानोस्तु भानवो रुद्र ! मुहूर्ताच्च मुहूर्तजाः ।

लम्बायाश्चैव घोषोऽथ नागवीथिस्तु या (जा) मितः ॥

१,६.२८ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 29

पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत ।

सङ्कल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥

१,६.२९ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 6, Verse 30

आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।

प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥

१,६.३० ॥