पूर्वखण्डः (आचारकाण्डः), अध्याय 52, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दानधर्मनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः श्रीगरुडमहापुराणम्- ५२ ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः ।
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ॥
१,५२.१ ॥