पूर्वखण्डः (आचारकाण्डः), अध्याय 45, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः श्रीगरुडमहापुराणम्- ४५ हरिरुवाच ।
प्रसंगात्कथयिष्यामि शालग्रामस्य लक्षणम् ।
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ॥
१,४५.१ ॥