Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 41

Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 41, Verse 1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः श्रीगरुडमहापुराणम्- ४१ वासुदेव उवाच ।

ॐ विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा ।

स्त्रीलाभो मन्त्रजाप्याच्च कालरात्रिं वदाम्यहम् ॥

१,४१.१ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 41, Verse 2

ॐ नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फठनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा ।

न तिथिर्न च नक्षत्रं नोपवासो विधीयते ॥

१,४१.२ ॥

Garuda Purana

पूर्वखण्डः (आचारकाण्डः), अध्याय 41, Verse 3

क्रुद्धो रक्तेन समार्ज्य करौ ताभ्यां प्रगृह्य च ।

प्रदोषे संजपेल्लिङ्गमामपात्रं च मारयेत् ।

ॐ नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा ।

शुक्रे नष्टे महादेव वक्ष्येऽहं द्विजपादिह ॥

१,४१.३ ॥