पूर्वखण्डः (आचारकाण्डः), अध्याय 40, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशोऽध्यायः श्रीगरुडमहापुराणम्- ४० शङ्कर उवाच ।
माहेश्वरीं च मे पूजां वद शङ्खगदाधर ।
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर ॥
१,४०.१ ॥