पूर्वखण्डः (आचारकाण्डः), अध्याय 4, Verse 1
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयोऽध्यायः श्रीगरुडमहापुराणम्- ४ रुद्र उवाच ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव एतद्ब्रूहि जनार्दन ॥
१,४.१ ॥