Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320

Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे तारतम्यनिरूपणद्वारा विष्णोरेवोपास्यत्वमित्यर्थनिरूपणं नामाष्टाविंशतमोध्यायः श्रीगरुडमहापुराणम्- २९ प्रवहानन्तरान्वक्ष्ये श‍ृणु पक्षीन्द्रसत्तम ।

यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः ॥

३,२९.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 2

सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः ।

स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः ।

पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः ॥

३,२९.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 3

श्रीकृष्ण उवाच ।

प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च ।

प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका ॥

३,२९.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 4

स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा ।

ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा ॥

३,२९.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 5

अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी ।

भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः ॥

३,२९.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 6

या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र ।

वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम् ॥

३,२९.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 7

तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम् ।

निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे ।

शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण ॥

३,२९.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 8

इन्द्रोऽपि वायुकरमर्दितवायुकूटबिन्दुं च प्राश्य शिरसि ह्यसहिष्णुमानः ।

भागीरथी हरिपदाङ्कमिति स्म नित्यं जानन्महापरमभागवतप्रधानः ।

भक्त्या च खिन्नहृदयः परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिवः शिवोऽभूत् ॥

३,२९.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 9

भागीरथ्याश्च चत्वारि रूपाण्यासन्खगेश्वर ।

महाभिषग्जनेन्द्रस्य भार्या तु ह्यभिषेचनी ॥

३,२९.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 10

द्वितीयेनैव रूपेण गङ्गा भार्या च शन्तनोः ।

सुषेणा वै सुषेणस्य भार्या सा वानरी स्मृता ॥

३,२९.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 11

मण्डूकभार्या गङ्गा तु सैव मण्डूकिनी स्मृता ।

एवं चत्वारी रूपाणि गङ्गाया इति किर्तितमम् ॥

३,२९.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 12

आदित्याच्चैव गङ्गातः पर्जन्यः समुदाहृतः ।

प्रवर्षति सुवैराग्यं ह्यतः पर्जन्यनामकम् ॥

३,२९.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 13

शरंवराय पञ्चजन्याच्च पञ्च हित्वा जग्ध्वा गर्वकं षट्क्रमेण ।

स्वबाणस्य स्वहृदि संस्थितस्य भजेत्सदा नैव भक्तिं विषं च ॥

३,२९.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 14

लिङ्गं पुष्टं नैव कार्यं सदैव लिङ्गं पुष्टं कार्यमेवं सदापि ।

योनौ सक्तिर्नैव कार्या सदापि योनौ मुक्तेऽसंगतो याति मुक्तिम् ॥

३,२९.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 15

वैराग्यमेवं प्रकारोत्येव नित्यमतः पर्जन्यस्त्वन्तकः पक्षिवर्य ।

एतावता शरभाख्यो महात्मा स चान्तरो स तु पर्जन्य एव ॥

३,२९.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 16

शश्वत्केशा यस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाख्यो पयोतः ।

यमस्य भार्या श्यामला या खगेन्द्र यस्मात्सदा कलिभार्यापिया च ॥

३,२९.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 17

मत्वा सम्यक्मानसं या करोति ह्यतश्च सा श्यामलासंज्ञकाभूत् ।

मलं वक्ष्ये हरिभक्तेर्विरोधी सुलोहपात्रे सन्निधानं च तस्य ॥

३,२९.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 18

तद्वैष्णवैस्त्याज्यमेवं सदैव वस्त्रं दग्धं सन्धिजं चैव जन्यम् ॥

३,२९.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 18

चिकित्सितं परदुःखं खगेन्द्र दरेर्भक्तैस्त्याज्यमेवं सदैव ॥

३,२९.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 19

नोच्चाश्च ते हरिभक्तेर्विहीनास्तेषां संगो नैव कार्यः सदापि ।

पुराणसम्पर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रम् ॥

३,२९.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 20

सुजीर्णकन्थाजिनमेखलं च यज्ञोपवीतं च कलिप्रियं च ।

प्रियं गृहं चोर्णविता नकं च समित्कुशैः पूरितं कुत्सितं च ॥

३,२९.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 21

सर्वं चेत्कलिभार्याप्रियं च नैव प्रियं शार्ङ्गपाणेः कदाचित् ।

कांस्ये सुपक्वं यावनालस्य चान्नं तुषः पिण्याकं तुम्बबिल्वे पलाण्डुः ॥

३,२९.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 22

दीर्घं तक्रं स्वादुहीनं कडूष्टणमेते सर्वे कलिभार्याप्रियाश्च ।

सुदुर्मुखं निन्दनं चार्यजानां सतोवमत्यात्मजानां प्रसह्य ॥

३,२९.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 23

सुपीडनं सर्वदा भर्तृवर्गे गृहस्थितव्रीहिवस्त्रादिचौर्यात् ।

प्रकीर्णभूतान्मूर्धजान्संदधानं करैर्युतं देवकलिप्रियं च ॥

३,२९.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 24

इत्यादि सर्वं कलिभार्याप्रियञ्च सुनिर्मलं प्रिकरोत्येव सर्वम् ।

अतश्च सा श्यामलेति स्वसंज्ञामवाप सा देवकी संबभूव ॥

३,२९.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 25

युधिष्ठिरस्यैव बभूव पत्नीसंभाविता तत्र च देवकी सा ।

चन्द्रस्य भार्या रोहिणी वै तदेयमश्विन्यादिभ्योऽह्यधिका सर्वदैव ॥

३,२९.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 26

रोणीं धृत्वा रोहति योग्यस्थानं तस्माच्च सा रोहिणीति प्रसिद्धा ।

आदित्यभार्या नाम संज्ञा खगेन्द्र ज्ञेया सा नारायणस्य स्वरूपा ॥

३,२९.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 27

संजानातीत्येव संज्ञामवाप संज्ञेति लोके सूर्य भार्या खगेन्द्र ।

ब्रह्मण्डस्य ह्यभिमानी तु देवो विराडिति ह्यभिधामाप तेन ॥

३,२९.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 28

गङ्गादिषट्कं सममेव नित्यं परस्परं नोत्तमं नाधमं च ।

प्रधानाग्नेः पाविकान्यैव गङ्गा सदा शुभा नात्र विचार्यमस्ति ॥

३,२९.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 320, Verse 29

आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिः प्रीयते केशवोलम् ।

गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहासंज्ञाधिगुणा नैव हीना ॥

३,२९.२९ ॥