Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमाहात्म्ये स्वामिपुष्करिण्यादितीर्थतत्रत्यदेवतदीयशालग्रामलक्षण तद्दानादिवर्णनं नाम षड्विंशोध्यायः श्रीगरुडमहापुराणम्- २७ श्रीकृष्ण उवाच ।

सा गता स्नातुकामाथ नन्दां पापनिवारिणीम् ।

पप्रच्छ तं गुरुं विप्रं विनयावनता सुधीः ॥

३,२७.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 2

किन्नामेयं नदी विप्र किं कार्यं चात्र मे वद ।

जैगीषव्यस्त्वेवमुक्तो वाक्यमेतदुवाच ह ॥

३,२७.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 3

जैगीषव्य उवाच ।

श‍ृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् ।

इयं नदी महाभागे सदा पापविनाशिनी ॥

३,२७.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 4

ब्रह्महत्यादिपापौघो यत्र स्नानेन नश्यति ।

प्रत्यक्षं दृश्यते ह्यत्र स्नानं कर्तुं समुद्यतैः ॥

३,२७.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 5

जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते ।

यावच्छुभ्रोदकं देवि तावत्सनानं च कारयेत् ॥

३,२७.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 6

यावच्छुभ्रोदकं नैव तावत्पापं न नश्यति ।

शुद्धोदके समायाते पापं नष्टमिति ध्रुवम् ॥

३,२७.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 7

कलावित्थं विशालाक्षि महिमा दृश्यते भुवि ।

अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम् ।

ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥

३,२७.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 8

गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः ।

सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥

३,२७.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 9

ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः ।

सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥

३,२७.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 10

नानेन सदृशं तीर्थं न भूतं न भविष्यति ।

स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥

३,२७.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 11

जैगीषव्येण मुनिना पित्रा सह च कन्यका ।

स्नानं चकार विधिवदुदतिष्ठच्च भामिनि ॥

३,२७.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 12

यावच्च पौरुषं सूक्तं तावत्कालं हि तिष्ठति ।

पश्चाज्जप्त्वा महामन्त्रं वेङ्कटेशाभिधं परम् ॥

३,२७.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 13

द्विजातीन्प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः ।

तस्माच्च प्रययौ देवी कमारीतीर्थमुत्तमम् ॥

३,२७.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 14

कुमारीमहिमानं च श्रुत्वा स्नानं चकार सा ।

पुनरावृत्य सा देवी ह्यन्तरा विरजानदीम् ॥

३,२७.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 15

दृष्ट्वा पप्रच्छ सा देवी जैगीषव्यं गुरुं प्रभुम् ।

किं संज्ञिकेयं विप्रेन्द्र किं कार्यं ह्यत्र मे वद ॥

३,२७.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 16

जैगीषव्यः पृष्ट एव मुवाच करुणानिधिः ।

इयं भागीरथी कन्ये आयाति ह्यन्तरेण तु ॥

३,२७.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 17

अतः सा प्रोच्यते ह्यन्तर्गङ्गेति परमर्षिभिः ।

कन्ये त्वस्यास्तु सलिलं श्रीनिनिवासप्रियं सदा ॥

३,२७.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 18

अत्र स्नानं यः करोति स याति परमां गतिम् ।

स्नानं चकार सा कन्या जले परमपावने ॥

३,२७.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 19

दानादिकं तथा ज्ञात्वा जजाप परमं मनुम् ।

श्रीनिवाससमीपं तु पुनरागत्य भामिनी ॥

३,२७.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 20

अङ्गप्रदक्षिणं चक्रे भक्त्या वेङ्कटनायकम् ।

ब्राह्मणादीन्प्रीणयित्वा वस्त्रगन्धादिभूषणैः ॥

३,२७.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 21

पुनः परदिने प्रातः स्वामिपुष्करिणीजले ।

स्नानं कृत्वा महाभागा ययौ तुंबुरुसंज्ञिकाम् ॥

३,२७.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 22

पप्रच्छ तं गुरुं देवी नाथं किन्नामिका त्वयम् ।

जैगीषव्य उवाच ।

इयं तुंबरुकाभिज्ञा नारी वै वरवर्णिनी ॥

३,२७.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 23

पुरा तुं बुरुणा साकं नारदस्तपसि स्थितः ।

अत्र प्रादुरभूद्विष्णुर्नारदस्य हिताय च ॥

३,२७.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 24

स्नानं यः कुरुते ह्यत्र स याति परमां गतिम् ।

अत्र स्नानं मनुष्याणां सर्वेषां दुर्लभं कलौ ॥

३,२७.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 25

अत्र स्नानं मनुष्याणां नाल्पस्य तपसः फलम् ।

तत्र स्नात्वा च पीत्वा च दत्त्वा दानान्यकेशः ॥

३,२७.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 26

पुनरागत्य सा देवी श्रीनिवासं ननाम ह ।

तस्मिमन्दिने ब्राह्मणांश्च तर्पयामास भमिनि ॥

३,२७.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 27

स्वामिपुष्करिणीं प्राप्य दीपान्प्राज्वालयत्सती ।

सोपानेषु महाभागा दीपावलिभिरञ्जसा ।

प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् ॥

३,२७.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 28

पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम् ।

कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् ॥

३,२७.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 29

तत्र स्नात्वा महाभागा तदूर्ध्वं स्नापयेत्स्वयम् ।

विष्वसेनसरस्तत्र सर्वपापविनाशनम् ॥

३,२७.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 318, Verse 30

तत ऊर्ध्वं महाभागा ययौ तत्र ददर्श सा ।

पञ्चायुधानां तीर्थानि तेषु स्नानं चकार सा ॥

३,२७.३० ॥