Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317

Containing 135 sacred Sanskrit shlokas with multi-author commentaries and translations.

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवी कृतवेङ्कटेशदर्शनतत्स्तुत्यादिवर्णनं नाम पञ्चविंशोध्यायः श्रीगरुडमहापुराणम्- २६ कन्योवाच ।

श्रीनिवासः किमर्थं वै आगतोत्र वदस्व मे ।

शेषाचलोऽपि कुत्रा भूत्कदायातश्च पापहा ।

स्वामिपुष्करिणी चात्र किमर्थं ह्यगता वद ॥

३,२६.१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 2

जैगीषव्य उवाच श‍ृणु भद्रे महाभागे व्यङ्कटेशस्य चागमम् ।

आवयोर्देवि पापानि विषमं यान्ति भामिनि ॥

३,२६.२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 3

आसीत्पुरा हिरण्याक्षः काश्यपो दितिनन्दनः ।

सनकादेश्च वाग्दण्डाद्द्वितीयद्वारपालकः ॥

३,२६.३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 4

बभूव दैत्ययोनौ च देवानां कण्टको बली ।

संजीवो विजयः प्रोक्तो हरिभक्तो महाप्रभुः ॥

३,२६.४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 5

हरिण्याक्षः स्वयं दैत्यो हरिभक्तविदूषकः ।

एतादृशो हिरण्याक्षस्तपस्तप्तुं समुद्यतः ॥

३,२६.५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 6

तदा माता दितिर्देवी हिरण्याक्षमुवाच सा ।

दितिरुवाच ।

वत्सलस्त्वं महाभागमा तपस्वाष्टहायनः ॥

३,२६.६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 7

त्वं मा ददस्व दुःखं मे पालयिष्यति कोविदः ।

क्षणमात्रं न जीवामि त्वां विना जीवनं न हि ॥

३,२६.७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 8

मा तप त्वं महाभाग मम जीवनहेतवे ।

एवमुक्तस्तु मात्रा स विजयोवशतोब्रवीत् ॥

३,२६.८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 9

हिरण्याक्षो मातरं प्राह जालं हित्वा विष्णोर्भजनेऽलं कुरुष्व ।

मयिस्नेहं पुत्रहेतोर्विरूढं सुखदुःखे चेह लोके परत्र ॥

३,२६.९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 10

यावत्स्नेहं मयि मातः करोषि तावत्क्लेशं शाश्वतं यास्यसि त्वम् ।

मातश्च ते मयि पुत्रत्वबुद्धिस्त्वय्यप्येषा मातृबुद्धिर्ममापि ॥

३,२६.१० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 11

ताते पूज्ये पितृबुद्धिर्ममास्ति तस्मिंस्तुते भर्तृबुद्धिर्हि मिथ्या ।

निर्माति यस्माद्धरिरेव सर्वं सम्यक्पाता नियतोऽसौ मुरारिः ॥

३,२६.११ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 12

अतो हि माता हरिरेव सर्वदा त्वन्यासां वै मातृता चोपचारात् ।

निर्मातृत्वं यदि मुख्यं त्वयि स्याद्द्रोणादीनां जननी का वदस्व ॥

३,२६.१२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 13

मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व ।

यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥

३,२६.१३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 14

सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व ।

मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥

३,२६.१४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 15

मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व ।

पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥

३,२६.१५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 16

न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च ।

न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥

३,२६.१६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 17

मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व ।

यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥

३,२६.१७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 18

यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति ।

अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥

३,२६.१८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 19

आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम् ।

उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥

३,२६.१९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 20

चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा ।

ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥

३,२६.२० ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 21

श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः ।

भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥

३,२६.२१ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 22

स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः ।

तं कर्णमूले ताडयित्वा जघान प्रसादयामास च पूर्ववद्भुवम् ॥

३,२६.२२ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 23

सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः ।

तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥

३,२६.२३ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 24

आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये ।

एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम् ।

वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥

३,२६.२४ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 25

सुवर्णमुखरीतीरमारभ्य गरुडध्वजः ।

श्रीकृष्णवेणीपर्यन्तं स्थापया मास तं गिरिम् ॥

३,२६.२५ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 26

गिरेः पुच्छे तु श्रीशैलं मध्यमेऽहोबलं स्मृतम् ।

मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥

३,२६.२६ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 27

अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले ।

गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥

३,२६.२७ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 28

य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः ।

ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्रुयात् ॥

३,२६.२८ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 29

पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति ।

यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥

३,२६.२९ ॥

Garuda Purana

उत्तरखण्डः (धर्मकाण्डः / प्रेतकल्पः), अध्याय 317, Verse 30

चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः ।

पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च ।

पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥

३,२६.३० ॥